________________
श्री तत्वार्थहरि० ५ अध्या०
॥२३१॥
Jain Education International
तमश्चेत्यादि द्वन्द्वः, एते च परिणामजाः पुद्गलपरिणामभवा इति, अत्र तमः पौद्गलं दृष्टिप्रतिवन्प्रकारित्वात् कुड्यादिवत् एवं | छायापि पुद्गलमयी शिशिरत्वाञ्जलवत्, आतपोऽपि पुद्गलात्मकः तापकत्वादग्निवत्, उद्योतोऽपि आल्हादादिहेतुत्वात् वृष्टिवत्, चशब्दात् वृष्टिदीपोद्योताविरोधादिपरिणामपरिग्रहः, सूत्रद्वयोक्तमर्थमुपसंहरन्नाह - 'सर्व एवैते' इत्यादि (१२९ - २) स्पर्शादय | इति स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्ति, तत्परिणामत्वादिति, अतः पुद्गलाः परमाण्वादयः तद्वन्तः स्पर्शादिमन्त इति | चानेन गुणगुणिनोर्भेदाभेद माहेति, भावितमेतत्, 'अत्राहे' त्यादि (१२९ - ४) किमर्थं शब्दादीनां स्पर्शादीनां च पृथक् पृथक् सूत्रं, एकार्थप्रतिबद्धत्वादिति, अन्रोच्यते- एकार्थप्रतिबद्धत्वेऽपि चेत्येतदाह-स्पर्शादयः पूर्वसूत्रोक्ताः परमाणुपु केवलेपु स्कन्धेषु |च दूधणुकादिबु परिणामजा एव भवन्ति, प्रयोगादेस्तथा दर्शनात्, शब्दादयस्तु द्वितीयसूत्रोक्ताः स्कन्धेष्वेव भवन्ति, न द्वयणुकादिपु, किन्त्वनेकाणुकेपु, अनेकनिमित्ताश्च शब्दादयः संघात भेदादिभ्यो भावादित्यतः पृथक्करणं सूत्रयोरिति ॥ ' त एत' इत्यादि (१२९-८) पुद्गलाः प्रस्तुताः समासतः सामान्येन द्विधा भवन्ति, तद्यथा
अणवः स्कन्धाश्चेति ।। ५-२५ ।। सूत्रम् ।।
अणवन्ते इत्यणवः पृथक्परिणामाः, स्कन्धाश्च तथाविधैकपरिणामभाजः पूर्वाचार्योक्तमधिकृतवस्तुसंवाद्येवाणुकलक्षणमाहउक्तं च पूर्वाचार्यैः किमित्याह- 'कारणमत्रे' त्यादि, करोतीति कारणं, अत्र पुद्गलाधिकारे, अन्त्यमिति अन्ते भवमन्त्यं, | द्रव्यतोऽशक्य भेदस्य परमाणुवस्तुत्वात्, सूक्ष्मः सर्वलघुरतीन्द्रियः नित्यश्च तद्भावाव्ययतया भवति परमाणुरेवंभूत इति, स चैकरसस्तिक्तरसाद्यपेक्षया एकगन्धः सुरभिगन्धाद्यपेक्षया एकवर्णः कृष्णादिवर्णापेक्षया द्विस्पर्शः शीतकठिनताद्यविरुद्ध
For Personal & Private Use Only
शब्दादीनां पुद्गललक्षणता
॥२३१॥
www.jainelibrary.org