________________
श्री तत्वार्थहरि०
५ अध्या०
॥२३०॥
Jain Education International
कम्- अपेक्षाप्रयोजनं, किमित्याह - द्व्यणुकादिषु, द्वयणुके त्र्यणुकापेक्षया सौक्ष्म्यं, चतुरणु के त्र्यणुकापेक्षयेत्येवं सङ्घातपरिणामापेक्ष भवति, संघातपरिणामस्यानेक भेदत्वात्, 'तद्यथे' त्यादिना तद्यथेत्युदाहरणोपन्यासार्थः, आमलकाइदरमिति आमलकं प्रतीत्य बदरं सूक्ष्मं, एवं स्थौल्यमपि स्थूलभावलक्षणं द्विविधं द्विप्रकारं, प्रकारावेवाह – अन्त्यमापेक्षिकं च, एतदपि संघात - परिणामापेक्षमेव भवति, परमाणुप्रचयपरिणामापेक्षमित्यर्थः, तत्रान्त्यं स्थौल्यं सर्वलोकव्यापिनि तथापरिणामभेदात् महास्कन्ध इति, इहावयव विकाशमात्रं स्थौल्यं गृह्यते, न बादरपरिणामरूपं तत्र लोकव्यापिनि पर्वत इव लोकाच्छादनसंगात्, आपेक्षिकं तु स्थूलत्वं बदरादिभ्यः सकाशात् आमलकादिष्विति, आदिशब्दात् दाडिमादिग्रहः, न चाताच्चिकमेतत् सौक्ष्म्यं स्थौल्यं वा, सन्मूर्त्ताचेतनत्वादिवदनन्तधर्मात्मके वस्तुनि तद्वाचिशब्देन प्रतीतेः, सर्वार्थे न निमित्तत्वाद् धियो भेदायोगात्, न हि नीलं कृष्णपीताद्यपेक्षयापि नीलानीलधीजनकमिति भावनीयं, 'संस्थान 'मित्यादि, (१२८-१७) संस्थानं - रचनाविशेषः, तदनेकविधं - अनेकप्रकारं, जीवसंस्थानभेदेन दीर्घहस्वादिः, दीर्घमायतं ह्रस्वं तद्विपरीतं, समचतुरस्र परिमण्डलाद्युपलक्षणमेतत्, अनित्यत्वपर्यन्तमिति, दीर्घादिना प्रकारेण यदित्थमिति निरूपयितुमशक्यं तदनित्थं तद्भावोऽनित्थंत्वं तत्पर्यन्तं संस्थानमिति, | धीभेदगम्यं चैतदिति भावितमेतद्, भेदः पञ्चविध इत्यादि, द्रव्यैकत्वपरिणतिविश्लेषो भेदः, स पञ्चविधः प्रञ्चप्रकारः, प्रकाशनाह - 'औत्कारिक' इत्यादि (१२९-१) तत्रौत्कारिकः समुत्कीर्यमाणदारुकप्रस्थकभेरीत्वगाकर्षादिविषयः, अवयवशः चूर्णनं चौर्णिकं | क्षिप्तपिष्टमुष्टिवत् खण्डशो विवरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् प्रतरो भेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोत्रोटनलक्षणः अनु| तटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटकः, इतिशब्दो भेदेयत्तावधारणार्थः, 'तमश्छाये 'त्यादि (१२९-२) समानविचारत्वादेक निर्देशः,
For Personal & Private Use Only
पुद्गलभेदाः
||२३०॥
www.jainelibrary.org