________________
कालोप
श्रीतस्वार्थ
हरि० ५अध्या०
कारः
विज्ञानपरिणामः पुद्गलो, यथाऽऽह-"आत्मधर्मोपचारो हि, विविधो यः प्रवर्तते । विज्ञानपरिणामोऽसौ, परिणामः स च त्रिधा |॥१॥" एवं तन्त्रान्तरीयैः पुगलो जीव उक्तः, त्वया पुनः शरीराद्युपकारिणः पुद्गला इत्युच्यन्ते तदेतत् कथं ,विप्रतिषिद्धत्वादिति | |प्रश्न इति, नन्वनुपपन्नः संशयः, पूर्वमुक्तमेव 'रूपिणः पुद्गला' इति, न च रूप्यारमा प्रतीत इति, उच्यते, रूपशब्देन तत्र मूक्ति
रुक्ता, सा च मूर्तिरन्यैः असर्वगतद्रव्यपरिमाणमिष्यते, यथा मनः, तच्च स्पर्शादिरहितं, एतभिरासार्थमिदमवश्यं वक्तव्यं भवति | सूत्रं स्पर्शादियुक्ता मूर्तिः,तथा चतुःत्रिद्वयेकगुणानि पृथिव्यादीनि कणभुजोक्तानि तत्प्रतिषेधार्थ चावश्यतया विधेयं,सर्वाणि तानि | चतुर्गुणानीत्येता विप्रतिपत्तीः सर्वाश्चेतस्याध्यायात्रोच्यते इत्याह-'एतदादी'त्यादि, एषा आदिर्यासां ता एतदादयः, पुद्गलशब्देनात्मोच्यत इत्येषा विप्रतिपत्तिराद्या, कुत्सिता प्रतिपत्तिर्विप्रतिप्रत्तिः,तथा असर्वगतं द्रव्यं स्पर्शादिरहितं चेति द्वितीया विप्रतिप-| त्तिस्तनिषेधाय सूत्रारम्भः, तथा पृथिव्यादीनि विशेषवचनैर्वक्तुमिष्टानि पृथक् पृथक् चतुर्गुणानीत्येतदभिधीयते
स्पर्शरसगन्धवर्णवन्तः पुद्गला इति ॥५-२३ ।। सूत्रम् ॥ प्राग्निर्दिष्टेन्द्रियक्रमापेक्षः स्पर्शादिविन्यास इति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'स्पर्श'त्यादिना (१२८-२) स्पर्शादि-| | विन्यासे स्वविषयबलवत्त्वादादौ स्पर्शः, सत्यस्मिन् रसादिसद्भावात् , कर्मसाधनाश्च सर्वे स्पर्शादयः, स्पृश्यन्त इति, इत्येवंलक्षणाः | पुद्गला भवन्ति, सर्वदैव स्पर्शादि (मन्तः) पुद्गला इति नित्ययोगे मतुः, यतश्चैवमतो न जीवशब्दवाच्याः, मूर्चचात्तेषां, एवं मनोऽपि, | स्पर्शादिमत्पुद्गलमयत्वात् , आपादीन्यपि स्पर्शादिमन्ति असर्वगतद्रव्यत्वात् पार्थिवाणुवत् , 'तत्र स्पर्शोऽष्टविध' इत्यादि (१२८-३) निगदसिद्धं यावत् सूत्रसमाप्तेरिति ।। किंचान्यदिति सम्बन्धग्रन्थः ।।
||२२८॥
२२८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org