SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थहरि० ५ अध्या० ॥२२७॥ Jain Education International प्रत्यासन्नोऽपरः, सन्निकृष्ट इत्यर्थः दिशः प्राधान्यम्, अविनाभावित्वात् कालोऽप्यत्राक्षिप्यते, कालैकत्वेऽप्युपदेशो भवत्येकदिव्यवस्थितयोः परोऽपर इति, कालकृते इत्यादिव्यतिकरेण परस्मिन् परमपरस्मिँश्चापरमिति यन्निमित्ते प्रत्ययाभिधाने स कालः, | तद्यथा - षोडशवर्षात् परो वर्षशतायुः, वर्षशतायुषोऽपरो द्विरष्टवर्षायुः, प्रशंसाक्षेत्रकृते परत्वापरत्वे चैते न भवतो, लुब्धकादा| वपि दर्शनात्, यस्माल्लुब्धकेऽपि देशकुलजातिविद्यापरिहीणे परत्वापरत्वप्रत्ययाभिधानसम्भवः, न च बन्धुजनापेक्षे, एका कि| न्यपि भावात्, न तपश्चरणालम्बने, अतपस्विन्यपि दर्शनात्, न कर्म्मसंस्कारापेक्षे, तथाऽनधिकारात्, न चादित्यनिमित्ते, तत्रापि दृष्टत्वात्, परोऽभियोग्यः अपर आदित्यः परः सविता अपरोऽभियोग्य इति, अतः सामर्थ्यात् कालकृते तयोर्विशेषणार्थमिदमुच्यते- प्रशंसाक्षेत्रकृते वर्जयित्वेति, वर्त्तनादयः सर्वे कालकृताः कालस्यापेक्षाकारणस्यानुग्रह उपकार इति सूत्रार्थ एव चायं यत् परत्वापरत्वे सूत्रभेदेन समस्य निर्दिष्टे सूरिणा तदवगमकं न प्रशंसाक्षेत्रकृतयोरत्र परिग्रहः, वर्त्तना परिणामः क्रियाश्व | द्रव्यस्वभावः कालापेक्षो निरदेशि, परत्वापरत्वे चावधित्वे तत् काललिङ्गमिति । अत्राहोक्तं भवेत्यादि (१२७-११) सम्ब| न्धग्रन्थः, अत्र प्रस्तावे परोऽभिधत्ते - प्रतिपादितं भवता शरीरादयः सुखादयश्च पुद्गलानामुपकार इनि, तंत्रान्तरीयाश्च मायासूनवीयाः पुद्गला इत्येनन शब्देन जीवान् परिभाषन्ते, पुद्गलशब्दं जीवेषु संकेतयन्ति व्यवहारसिद्ध्यर्थमिति, ननु च तेषां जीव एव नास्ति कथं तद्विषयं पुद्गलध्वनिं परिभाषेरन्निति ?, उच्यते - अस्त्यार्यसम्मितीयानामात्मा, सौत्रान्तिकानां तु "चित्ततद्युक्तसन्ततौ तत्पुद्गलप्रज्ञप्तिः,” चित्तसन्ततौ वेदनासंज्ञाचेतनादिधर्म्मयुक्तायां चक्षुरादिसहितानां च चित्तेनान्योऽन्यानुविधानादित्येपा | चित्ततद्युक्तानां धर्माणां सन्ततिरहङ्कारः वस्तुत्वादात्मन्युपचर्यते, तथा पुनः पुनर्गत्यादीनां पुद्गल इत्युपचर्यते, योगाचाराणां तु For Personal & Private Use Only कालोपकारः ॥२२७॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy