SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० ५अध्या० कालोपकारः णामस्तद्भावलक्षणः, स द्विविधः-अविद्यमानादिरनादिरमूर्तेषु धर्मादिषु, मूर्तेषु पुनरादिमान अभ्रेन्द्रधनुरादिपु स्तम्भकुम्भा-I8 |दिषु च, चशब्दोऽवधारणार्थः, परिणामो द्विविध एव, तं चाध्यायपरिसमाप्तौ वक्ष्यामः तद्भावः परिणाम इति, स च वस्तूनां - |ऋतुविभागवेलानियमकृतः 'क्रिया गति रित्यादि (१२७-३) भाष्यं, करणं क्रिया-द्रव्यपरिणामस्तस्यानुग्राहकः कालः, तथा-| |ऽऽकाशदेशावल्यामङ्गुली वर्त्तते, अतीतानागतेति च, अन्यथाऽतीत एव वर्तमानोऽनागतश्च स्याद् , एवमनागतो वर्तमानश्च संकी-| |र्येत, अनिष्टं चैतत् , तस्मादस्ति कालो यदपेक्षयाऽतीतादिव्यपदेशाः परस्परासंकीर्णाः संव्यवहारानुगुणाः प्रथन्ते, तत्रातीतो द्विवि धः भावविषयभेदात् , विनष्टो घट इति भावातीतः, विषयातीतश्चक्षुरादिग्रहणानन्तरमद्राक्षं घटं, तथाऽनागतदिदृक्षाभ्यो घटो | विषयानागतः, अलब्धात्मभावो भावानागत इति, तत्र प्रयोगगतिः-जीवगतिपरिणामसंप्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसं| स्थानविषया, विश्रसागतिः प्रयोगमन्तरेण केवला जीवद्रव्यस्वपरिणामरूपा परमाप्वभ्रेन्द्रधनुःपरिवेपादिरूपा, विचित्रसंस्थाना, मिश्रिका प्रयोगविश्रसाभ्यामुभयपरिणामरूपत्वाजीवप्रयोगसहचरिताचेतनद्रव्यपरिणामा कुम्भस्तम्मादिविषया, कुम्भादयो हि | तेन तादृशा परिणामेनोत्पत्तुं स्वत एव शक्ताः कुम्भकारसाचिव्यादुपजायन्ते, वर्त्तनापरिणामयोः क्रियाजातीयत्वादेव पर्यन्ते क्रि| योपादानं, परिणामश्चात्र प्रधानमित्यतो वर्तनाक्रिययोः स मध्येऽधीतः सूत्रकारेण, परिणतिविशेषा एव वर्तनाक्रियाभेदा इति, परत्त्वापरत्त्वेत्यादि, प्रशंसाक्षेत्रकालभेदात्रैविध्यं, तत्र प्रशंसायां परो धर्मः सर्वोत्तमत्वात् प्रशस्तः सकलमङ्गलनिलयत्वात् |प्रकर्षकाष्ठां गत इति, अपरोऽधर्मो जघन्यः स्वल्पगुणत्वात् निकर्षावस्था प्राप्तः, तथा परं ज्ञानं यथावस्थितवस्तुवेदित्वादप-| | रमन्यथा, तच्चाज्ञानमेव अप्रशस्तत्वात् कुत्सितमसम्यग्दृष्टेरिति, क्षेत्रकृते इत्यादि, एकस्यां दिश्येकदा विप्रकृष्टो-दूरवनी परः ॥२२६॥ ||२२६॥ For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy