________________
जीवस्य
श्रीतवार्थ
हरि० ५ अध्या०
कालस्य चोपकार:
बुध्यामहे-अथ जीवानां पृथिव्यादीनां क उपकारः?, परस्परतः, इत्यनवबोधात् प्रश्निते सत्याह-अन्योन्य इत्यादि,
परस्परोपग्रहो जीवानामिति ।।५-२१ ॥ सूत्रम् ॥ | अन्योऽन्योपग्रहो जीवानामुपकार इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'परस्परे'त्यादिना,(१२६-१०) परस्परस्य-अन्यो|ऽन्यं हिताहितोपदेशाभ्यामिति हितप्रतिपादनेन अहितप्रतिषेधेन च उपग्रहो जीवानामिति, तथाभव्यत्वाक्षिप्ता हिताहित|निमित्तता जीवानां प्रयोजनमिति, प्राग् उपयोगो लक्षणमित्युक्तं असाधारणं, तत्र साधारणा च निमित्ततेति न सूत्रान्तरोपन्यासदोषः, 'अत्राहे त्यादि (१२६--१०) सम्बन्धग्रन्थः॥ अथ कालस्य पाक्षिकत्वेनेष्टस्य 'कालश्चेत्येक' इति वचनात् , उपकारः प्रयोजनाख्यः कः? इति, अत्रोच्यते
वर्तना परिणामः क्रिया परत्वापरत्त्वे च कालस्य ॥५-२२।। सूत्रम् ॥ । वर्तनादिलक्षण उपकारः कालस्येति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'तद्यथे'त्यादि (१२६-१४) सर्वभावानां धर्मादीनां, वर्तमानकालाश्रयास्ते हि वर्त्तन्ते स्वयमेव, तेषां वर्तमानानां प्रयोजकः, कालाश्रया वृत्तिस्तथा वर्त्तनाशीलता वर्तना कालस्योपकार इति वक्ष्यति, तद्भावनार्थमेवाह-उत्पत्तिस्तथा तद्भावप्रादुर्भावलक्षणा अधिगतिः-अविच्युतिस्तदाऽस्याः प्रथमसम| याश्रया अर्थविवक्षितसमया भावोत्पत्तिः वर्त्तनेति भण्यते, तथा परिणामो द्विविध इत्यादि, (१२७-१) द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामस्तद्यथा-अडरावस्थवनस्पतेर्मूलकाण्डत्वक्स्कन्धशाखाविटपपुष्पफललक्षणः परिणामः, आसीद् अङ्कुरः, सम्प्रति स्कन्धवान् ऐषमः पुष्पिष्यतीति, पुरुपद्रव्यस्य वा बालकुमारयुवमध्यमाद्यवस्थाः परि
॥२२५॥
॥२२५॥
For Personal Private Use Only