SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पुद्गलोप श्रीतत्वार्थ हरि० ५ अध्या० कार: चापितं स्नेहं ॥१॥ तद्वद्रागादिगुणः सयोगवृत्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति ताँश्च कर्मतया ॥२॥" तस्माछरीराधाकारेणोपकारिणः प्राणिनां पुद्गला इति ॥ किं चान्यत् प्रकारान्तरेणापि पुद्गलानामुपकारित्वमित्याह सुखदुःखजीवितमरणोपग्रहाश्चेति ॥५-२०॥ सूत्रम् ।। सुखादिनिमित्तता चोपकारः पुद्गलानामिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'सुखोपग्रह' इत्यादिना (१२५-१४) | सगादिसम्बन्धादात्मनः आल्हादः सुखं तस्योपग्रहो-निमित्तता पुद्गलानामुकार इति योगः, एवं दुःखोपग्रहः, नवरं कण्टकादिस|म्बन्धात् परितापो दुःखं, एवं जीवितोपग्रहः, नवरं प्राणापानक्रियानुपरमो जीवितं, एवं मरणोपग्रहो, नवरं प्राणाद्युपरमो मरणं, अयं च पुद्गलानामुपकारः, पुद्गलसम्बन्धि प्रयोजनमात्मसमवायि, चशब्दाच्छरीरादि च, तस्मिन् सत्येतदिति, भेदेन सूत्राभिधानं | | पुद्गलात्मोभयाधीनत्वेऽप्यधिकृतफलस्य पुद्गलानामसाधारणतया व्युघटिष्यत इत्युक्तं, एवं सर्वत्र योजनीयमिति । सुरखोपग्रहा|दित्वमेव स्पष्टयन्नाह-'तयर्थे'त्यादि (१२५-१५) इष्टाः-स्पर्शादयः अवस्थाऽपेक्षं बल्लभा मनोऽनुकूलतया सुखस्योक्त- | लक्षणस्य उपकार इति, सुखमात्मपरिणामस्वभावमनुकुन्तीति, कर्मणि षष्ठी द्रष्टव्या, एवमनिष्टाः स्पर्शादयः अवस्थापेक्षमव|ल्लभा मनःप्रतिकूलतया दुःखस्योक्तलक्षणस्यैव उपकार इति पूर्ववत् , दुःखमात्मपरिणामस्वभावमुपकुर्वन्तीत्यर्थः, 'स्नाने'त्यादि (१२५-१६) स्नानादीनि प्रतीतान्येव,विधिप्रयुक्तानीति देशकालमात्रासात्म्ययोजितानि जीवितस्योपकार इति वर्त्तते, केन | भावेनेत्याह-अनपवर्त्तनं चायुष्करयेति जन्मान्तरोपनिबद्धस्य अनुग्राहकं हेतुसन्निधानतस्तथा, तावन्मात्रे वेदनमित्यर्थः, एवं | विषशस्त्राग्निमन्त्रादीनि प्रतीतान्येव, एतानि किमित्याह-मरणस्योपकारा इति वर्तते, नैतान्येवेत्याह-अपवर्तनं चायुष्कस्य ॥२२३॥ ॥२२३॥ For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy