________________
पुद्गलोप
श्रीतत्वार्थ
हरि० ५ अध्या०
कार:
चापितं स्नेहं ॥१॥ तद्वद्रागादिगुणः सयोगवृत्याऽऽत्मदीप आदत्ते । स्कन्धानादाय तथा परिणमयति ताँश्च कर्मतया ॥२॥" तस्माछरीराधाकारेणोपकारिणः प्राणिनां पुद्गला इति ॥ किं चान्यत् प्रकारान्तरेणापि पुद्गलानामुपकारित्वमित्याह
सुखदुःखजीवितमरणोपग्रहाश्चेति ॥५-२०॥ सूत्रम् ।। सुखादिनिमित्तता चोपकारः पुद्गलानामिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'सुखोपग्रह' इत्यादिना (१२५-१४) | सगादिसम्बन्धादात्मनः आल्हादः सुखं तस्योपग्रहो-निमित्तता पुद्गलानामुकार इति योगः, एवं दुःखोपग्रहः, नवरं कण्टकादिस|म्बन्धात् परितापो दुःखं, एवं जीवितोपग्रहः, नवरं प्राणापानक्रियानुपरमो जीवितं, एवं मरणोपग्रहो, नवरं प्राणाद्युपरमो मरणं,
अयं च पुद्गलानामुपकारः, पुद्गलसम्बन्धि प्रयोजनमात्मसमवायि, चशब्दाच्छरीरादि च, तस्मिन् सत्येतदिति, भेदेन सूत्राभिधानं | | पुद्गलात्मोभयाधीनत्वेऽप्यधिकृतफलस्य पुद्गलानामसाधारणतया व्युघटिष्यत इत्युक्तं, एवं सर्वत्र योजनीयमिति । सुरखोपग्रहा|दित्वमेव स्पष्टयन्नाह-'तयर्थे'त्यादि (१२५-१५) इष्टाः-स्पर्शादयः अवस्थाऽपेक्षं बल्लभा मनोऽनुकूलतया सुखस्योक्त- | लक्षणस्य उपकार इति, सुखमात्मपरिणामस्वभावमनुकुन्तीति, कर्मणि षष्ठी द्रष्टव्या, एवमनिष्टाः स्पर्शादयः अवस्थापेक्षमव|ल्लभा मनःप्रतिकूलतया दुःखस्योक्तलक्षणस्यैव उपकार इति पूर्ववत् , दुःखमात्मपरिणामस्वभावमुपकुर्वन्तीत्यर्थः, 'स्नाने'त्यादि (१२५-१६) स्नानादीनि प्रतीतान्येव,विधिप्रयुक्तानीति देशकालमात्रासात्म्ययोजितानि जीवितस्योपकार इति वर्त्तते, केन | भावेनेत्याह-अनपवर्त्तनं चायुष्करयेति जन्मान्तरोपनिबद्धस्य अनुग्राहकं हेतुसन्निधानतस्तथा, तावन्मात्रे वेदनमित्यर्थः, एवं | विषशस्त्राग्निमन्त्रादीनि प्रतीतान्येव, एतानि किमित्याह-मरणस्योपकारा इति वर्तते, नैतान्येवेत्याह-अपवर्तनं चायुष्कस्य
॥२२३॥
॥२२३॥
For Personal Private Use Only
www.jainelibrary.org