________________
पुद्गलोप
श्रीतस्वार्थ
हरि० ५अन्या०
कार:
शरीरवारमनःप्राणापानाः पुद्गलानामिति ॥ ५-१९ ।। सूत्रम् ॥ शरीरादयः पुद्गलानामुपकार इति समुदायार्थः। अवयवार्थ त्वाह-पंचविधानी'त्यादिना (१२५-६) पंचविधानि पंचया प्रकाराणि शरीराण्यौवारिकादीनि प्रागुक्तानि पुद्गलानामुपकार इति योगः, तथा वाड्मनः प्राणापानौ, वाड्मनःपर्याप्स्ये|कत्वविवक्षयैकवचनं, प्राणापानयोरप्युच्छासनिश्वासयोर्जात्यपेक्षमिति, इतिशब्दश्चार्थे, वाङ्मनः प्राणापानौ चेत्यर्थः, पुद्गलानां |
स्कन्धादीनां सम्बन्धि प्रयोजनं, जीव इति गम्यते, एतदेव विशेषेण ब्याचिख्यासुराह-तत्रेत्यादि (१२५-७) शरीराणि : | यथोक्तानि द्वितीयाध्याये तथेह द्रष्टव्यानि प्राणापानौ चाष्टमेऽध्याये नामकर्मणि 'गतिजाती'त्यादिसूत्रे पञ्चप्रकारपर्याप्तिकर्मणि| प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्तनक्रियापरिसमाप्तिःप्राणापानपर्याप्तिरित्यत्र भाष्ये व्याख्यास्येते, किं | तर्हि वृत्ती व्याख्यातावित्याह ,उच्यते-'आशंसायामर्थे भृतवद्वर्तमानवच्च प्रत्यया भवन्ति,उपाध्यायश्चेदागमिष्यते तद् व्याकरण| मधीतम्',एवमिहापि नामकापि संमतमित्यदोषः,तथा 'द्वीन्द्रियादय' इत्यादि,द्वीन्द्रियादयः कृम्यादयः जिह्वन्द्रिययोगात् | पर्याप्तिरसनेन्द्रियसम्बन्धेन भाषात्वेन गृह्णन्ति, तदुचितस्कन्धानामिति, नान्ये जिह्वेन्द्रियरहिताः पृथिव्यादयः, जिह्वेन्द्रि| यप्रतिबद्धत्वाद्भाषापर्याप्तेरिति, 'संज्ञिनश्चे'त्यादि, संझिनः समनस्का एव,चशब्दस्यावधारणत्वात् मनस्त्वेन मनोभावेन गृह्णन्ति, मननार्थ,नान्ये एकेन्द्रियासंज्ञिपंचेन्द्रियावसानाः,मनःपर्याप्तिकारणाभावादिति । कथमात्मा शरीरादियोग्यान् पुद्गलानादत्ते इत्याक्षिप्ते सत्याह-'वक्ष्यते ही'त्यादि,अमिधास्यते यस्मादष्टमेऽध्याये बन्धाधिकारे,किमित्याह-सकषायत्त्वाजीवः कर्मणो योग्यान पुद्गलानादत्ते स बन्ध इति, उक्तमन्यत्रापि-"उष्णगुणः सन् दीपः, स्नेहं वृत्या यथा समादत्ते । आदाय शरीरतया परिणमयति |
॥२२२॥
॥२२२॥
Jan Education r
ational
For Personal
Only