________________
श्रीतस्वार्थ
हरि० ५ अध्या०
आकाशोपकारः
मास्तिकाय इति, एवं गतिस्थित्युपग्रहप्रयोजनताऽनयोः, सदोभयाभावश्च जीवादीनां धर्मादिभावे स्वगततथाविधपरिणामकादा|चित्कतया, स त्वनादितद्भावकालादिसापेक्ष इति भावनीयं, न हि मत्स्यानामपि जलमित्येव गतिः, अपि तु तथापरिणतस्य जलात , एवं पुरुषस्यापि न समा भूमिरिति स्थितिः, अपि तु तथापरिणतस्य समभूमेः, मही पातालं किं ततः ,ततद्भावपरिणतिशून्यस्य पातालागमनादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयात् अक्षरगमनिकानात्रफलत्वात् प्रारम्भस्येति ।।
. आकाशस्य अवगाह इति ॥५-१८॥ सूत्रम् ॥ अवगाह उपकारः आकाशस्येति समुदायार्थः । अवयवार्थ त्वाह-'अवगाहिना'मित्यादिना (१२५-२) अवगाहिनां धर्मा-| धर्मपुद्गलजीवानां चतुर्णामपि अवगाहः तथातत्प्रवेशलक्षणः, किमित्याह-आकाशस्योपकारः आकाशस्य सम्बन्धि प्रयोजनं, मिन्नाधारमिति विभक्त्यलोपः, अवगाहावगाहकयो रूपाधीनत्वेऽपि चावगाहस्याकाशेन व्यपदेशः तदसाधारणत्वात् ,
असाधारणेन च हेतुना व्यपदेशः प्रवर्त्तते, तद्यथा-भेरीशब्दो यवाङ्कुर इति, धर्मादयो ह्यवगाहहेतवो गत्यादिहेतवश्च, आकाशं | त्वबगाहहेतुरेव, आकाशस्योपकार इत्युक्तं, कथं केषामयमित्येतदाह-'धर्म'त्यादिना (१२५-३) धर्माधर्मयोः-उक्तलक्षणयोः | अन्तःप्रवेशसम्भवेन स्वमध्ये धर्मादिप्रवेशदानेन, आकाशदेशाभ्यन्तरवर्तिनो हि धर्माधर्मप्रदेशाः, सम्भवग्रहणमलोके तद| सम्भवात् , न तहीदं व्याप्याकाशलक्षणं इति चेत् को वा किमाह ?,लोकाकाशस्यैवैतदभिधानात् ,अत एवोक्तं लोकाकाशेऽवगाह । इति, तथा पुद्गलजीवानां उक्तलक्षणानां, किमित्याह-संयोगविभागैश्च तथा नियतैर्बहुभिस्तेषामन्यत्र गमनात्,चशब्दादन्तः| प्रवेशेन आकाशस्योपकार इति ।।
॥२२॥
॥२२१॥
Jan Education n
ational
For Personal Private Use Only