SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थहरि० पदपुरमी शलानुबंध, पञ्चमः कुशलानुबंध, षष्टो निरनुबन्धमिति । तत्र अकुशलानुबन्धमभिधित्सुराह-'कम्मे त्यादि, (पृ-१-४) कर्म उक्त-18 लक्षणं 'अहितम् 'अनिष्टफलदं, केत्याह-'इह चामुत्र च' इहलोके परलोके च , 'अधमतमो' जघन्यतमः 'नरः' तन्नामगोत्रकर्मोदयमात्रेण पुरुषः, 'समारभते' एकीभावेनाभिविधिना करोति , उदाहरणमत्र व्याधमत्स्यवन्धादयः, ते हीहलोकेऽपि दुःखभाजः परलोकेऽपि दुर्गतिगामिन इति, 'इहफलमेव त्वधमः' इह फलमस्येति इहफलं, कम्र्मेति प्रवर्त्तते, एवकारोऽच|धारणे , इहफलमेव, तुशब्दो विशेषणार्थः, अधममारम्भफलमाश्रित्यावधारणं, न विहफलमेव तत् , परलोके दुर्गतिफलत्वात् , स ह्यधमो विषयसुखगृध्नुः परलोकमविगणय्य तदनुगुणमिहफलमेवारभते, उदाहरणमत्र कामादिप्रधाना ऐहिकप्रत्यवायपरिहारिणः | परलोकनिरपेक्षाः पृथग्जना इति, 'विमध्यमस्तुभयफलार्थ' विमध्यमः-अप्राप्तमध्यमावस्थः, तुः विशेषणार्थः, संसाराभिनन्येव, उभयस्मिन् फलं उभयफलं तत् अर्थः-प्रयोजनमस्येति उभयफलार्थ, कारभतइति वर्तते, उदाहरणं चात्र विषयेषु सक्ता अमुत्रापि तद्विशेषार्थिनः दानादिक्रियासु प्रवृत्ताः पृथग्जना एवेति, एवमेतत् पुरुषत्रयमपि संसारवीजोपचयहेतुत्वेन सामान्यतोऽकु शलानुबंधं प्रति प्रयतते ॥ इदानीं यः कुशलाकुशलानुबंधं कुशलानुबन्धं च प्रति प्रयतते तान् अभिधातुमाह-'परलोके'त्यादि | DI(पृ.१-५) परलोको-जन्मान्तरं तस्मिन् हितं परलोकहितं तदर्थं परलोकहिताय, एवोऽवधारणार्थी, इहलोकनिरपेक्षं परलोकहितायैव प्रवर्तते-प्रयतते, समारभत इति कियानुवृत्तावपि प्रवर्त्तत इति क्रियान्तराभिधानमतिशयेन प्रवर्तत इति वैशिष्ट्यख्यापनार्थ, मध्यम' इति मनागालोचकत्वान्मध्यमवुद्धिन्वान्मध्यमो, जर इति वर्त्तते, क्रियासु-अनुष्ठानरूपासु 'मदा' सर्वकालमाप्राणोपरमादिति. उदाहरणं चात्र गृहाश्रमत्यागिनोऽनवगततत्त्वमार्गाः परलोक एव कल्याणार्थिनस्तापसादय इति, 'मोक्षायैव तु' प्रवर्तत इति क्रियान्तरा, यासु अनुष्ठानरूपात इति, मोक्षायैव तु' । ॥ ॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy