________________
श्रीतच्चार्थहरि०
॥ ३ ॥
Jain Education International
मानुषं जन्माह, इदं हि प्रत्यक्षमेव कर्म्मक्लेशाग्रेडितं दृश्यत इति, 'तथा प्रयतितव्य' मिति तथा--तेन दर्शनादित्रयलाभोपायपालनप्रकारेणानुकम्पादि गुरुकुलोपासनादिना ( प्रवचनोक्तहेतुभ्यः ) ' प्रयतितव्यं ' प्रयत्नः कार्यः, यथा किमित्याह - 'कर्मक्लेशाभावो यथा भवति' कर्मक्लेशाः पूर्वोक्तास्तेषामभावः क्षयः तैर्वियोग इत्यर्थः, स यथा भवति, स चानुकम्पादिभ्यः प्रवचनोक्तहेतुभ्यः सद्दर्शनाद्याप्तौ सत्यां गुरुकुलोपासनया अध्ययननिरतिचार चारित्र भावनादिभ्यो भवति, 'एष परमार्थ' | इति, वक्ष्यमाणविस्तरमपि समासतोऽवधार्याह-एष परमार्थः, अस्य शास्त्रस्य अयं गर्भ इति भावः, अथवा 'एप' इत्येष कर्म्मक्लेशाभाव:, 'परमार्थ:' परमः - उत्कृष्टः अर्थः- प्रयोजनं सर्वोपद्रवरहितात्यन्तिकस्वास्थ्यभावेनैतत् प्रधानं प्रयोजनं, मोक्ष इत्यर्थः ॥ २ ॥ एकभवेनैतदभावे यत्कार्यं तदभिधातुमाह- 'परमार्थे' त्यादि, 'परमार्थालाभे वा' परमार्थस्यालाभः तस्मिन् अक्षेपेणैवोक्तलक्षपरमार्थप्राप्तौ वा असत्या, अप्राप्तिनिबन्धनमाह-'दोपेयारम्भकखभावेषु' दूषयन्त्याशयमिति दोषा — रागादयः तेषु, आर| म्भयति — जन्मान्तरवी जोपादानाय अशुभे प्रवर्त्तयतीत्यारम्भकः, आरम्भकः स्वभावो येषामिति विग्रहः तेष्वेवंभूतेषु सत्सु, पर| मार्थालाभे सति किं कर्त्तव्यमित्याह- 'कुशलानुबन्धमेवे 'ति कुशलं शुभस्थानप्राप्तिहेतुः पुण्यं तदनुबध्नाति उत्तरोत्तर हेतुप्राप्तिहेतुत्वेन तस्मिन् वा अनुबन्धोऽस्येति कुशलानुबन्धं, कुशलप्रयोजनमित्यर्थः एवकारोऽवधारणे, कुशलानुबन्धमेव नाकुशलानुबंधं, 'स्यादनवद्यं, यथा कर्म' स्याद्-भवेद् अनवद्यं औचित्येन गुणप्रतिपच्या सूक्ष्मेतरनिदानपरिहारेण चापापं यथा कर्म-उक्तलक्षणं तनिव न्धनं वाऽनुष्ठानं, तथा प्रयतितव्यमिति वर्त्तते, किमन्यथापि कश्चित् प्रयतत इति ?, उच्यते, पद्पुरुषविशेषभावात् प्रयतन्ति, पद् पुरुषाः अधमाधमः अधमः विमध्यमः मध्यमः उत्तमः उत्तमोत्तम इति, अमीषामाद्यत्रयमकुशलानुबंधं प्रति प्रयतते, चतुर्थः कुशलाकु
For Personal & Private Use Only
पट्पुरुषी
॥ ३ ॥
www.jainelibrary.org