________________
श्रीतत्वार्थ-I
हरि० ५अध्या०
अवगाहविचारः
| त्याह-'भाज्योऽवगाह' इति,अनेकार्थत्वाद्धातूनाम् ,एतद् व्याचष्टे-'भाज्यो विभाज्यो विकल्प्य इत्यनान्तरम्' विशेषेण
अतिशयेन परमाण्वादिना भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा द्यणुकस्यैकस्मिन् द्वयोश्च, परिणामवैचित्र्यादिति, |एतदेवाह-'तद्यथे' त्यादिना (१२३-१०) परमाणोरेकस्मिन्नेव प्रदेशेऽवगाहः,तस्य प्रदेशत्वात् , यव्यणुकस्यैकस्मिँश्च द्वयोश्च,परि|णामवैचित्र्यात् , वज्रभाण्डादौ तथोपलब्धेः, एवं व्यणुकादिष्वपि भावनीयं यावदनन्तप्रदेशस्य च असंख्येयप्रदेशेष्वेव, तथा | परिणामवैचित्र्यात् , लोकाकाश. एव तद्भावादिति ॥
' असंख्येयभागादिषु जीवानामिति ॥५-१५॥ सूत्रम् ॥ | एतद् व्याचष्टे-'लोके' (१२३-१५) त्यादिना, लोकाकाशप्रदेशानां यथोक्तानां, किमित्याह--असंख्येयभागादिषु कदाचि| देकस्मिन् असंख्येयभागे कदाचिद् द्वयोः कदाचित्रिष्वित्यादि, जीवानां पृथिवीकायिकादीनां,किमित्याह-अवगाहो भवति, प्रवेशः, कियद्यावदित्याह-आ सर्वलोकादिति, सर्वलोकं यावत् , केवलिनः समुद्घात इति ॥ 'अत्राहे' (१२३-१७) त्यादि सम्बन्धग्रन्थः कण्ठ्यः, को हेतुः-का युक्तिः, असंख्येयभागादिषु जीवानामवगाहा भवति लोकस्य, तेऽपि तुल्यप्रदेशा एव, न च | तुल्यप्रदेशानां पटादीनामवगाहभेद इत्यभिप्रायः, अत्रोच्यते समाधिः
प्रदेशसंहारविसर्गाभ्यां प्रदीपवदिति ॥ ५-१६ ।। सूत्रम् ।। अन्योऽन्यानुप्रवेशाविना प्रदेशसं अन्योऽन्यानुप्रवेशादिना प्रदीपवत्तुल्यत्वेऽप्यवगाहभेद इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह-'जीवस्य ही'त्यादिना (१२४-२) जीवस्य यस्मात् प्रदेशानाम् उक्तलक्षणानां संहारविसर्गौ संकोचविकाशाविष्टौ-अभ्युपगतौ प्रदीपस्येवेति दृष्टान्तः, एनमेव ।
॥२१८॥
॥२१८॥
॥२१८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org