SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ yam अवगाहविचार पूर्वसूत्रापवादोऽस्य पिण्डार्थः । अवयवार्थ त्वाह-'अणो रित्यादिना (१२३-२)अणोंः-परमाणुपुद्गलस्य प्रदेशाः-आरम्भकाः श्रीतस्वार्थ- परमाणवः न सन्ति,न चैवमप्यभावोऽस्येत्याह-'अनादिमध्यप्रदेशो हि परमाणु रिति, यस्मादादिमध्यान्तप्रदेशः रहित एवा हरि० | यमिष्यते, न चैवंभूतोऽपि न सम्भवति, विज्ञानवद्भावाविरोधात कार्यगम्यत्वाच्चेति ॥ व्यवहारनयमधिकृत्यावगाहिनामवगाहमाह५अध्या० लोकाकाशेऽवगाह इति ॥५-१२।। सूत्रम् ॥ - एतद् व्याचष्टे-'अवगाहिना मित्यादिना (१२३-४) अवगाहिनामित्यनुप्रवेशवतां धर्मादीनां, किमित्याह-अवगाहः-प्रवेशः, | केत्याह-'लोकाकाशे' चतुर्दशरज्ज्वात्मक एव भवति, नालोकाकाशे, तस्य एतत्स्वभावत्वादिति ॥ तथा चाह धर्माधर्मयोः कृत्स्ने इति ॥५-१३॥ सूत्रम् ॥ एतद् व्याचष्टे-'धर्माधर्मयो'रित्यादिना (१२३-६) धर्मास्तिकायाधर्मास्तिकाययोः कृत्स्ने सम्पूर्णे लोकाकाशे-चतुर्दशरज्ज्वात्मकेऽपि, किमित्याह-अवगाहो भवति, अनादिकालीनः,परस्पराश्लेषपरिणतेरिति भावः॥ एकप्रदेशादिषु भाज्यः पुद्गलानामिति ॥५-१४ ॥ सूत्रम् ।। 'एकप्रदेशादिष्विति (१२३.८) समानाधिकरणे बहुव्रीहिः,एकश्चासौ प्रदेशश्चेति, प्रदेशः उक्तलक्षणः, एकः प्रदेश आदिपर्येषां तेष्वेकप्रदेशादिषु भाज्योऽबगाहः पुद्गलानामिति सूत्रसमुदायार्थः। अवयवार्थ त्वाह 'अप्रदेश' इत्यादिना (१२३-८) अवि॥२१७॥ | द्यमानद्रव्यान्तरप्रदेशोऽप्रदेशः-परमाणुः, स्वयमेव प्रदेशत्वात् , पुद्गलश्चायं पूरणगलनधर्मत्वत एव, संख्येयप्रदेशैः प्रचयविशेषात् |संख्येयः स्कन्धः, सोऽपि पुद्गलः, एवमसंख्येयानन्तप्रदेशावपि वाच्यौ, तेषां पुद्गलानां सर्वेषामेव एकादिष्वाकाशप्रदेशेषु, किमि | ॥२१७॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy