________________
श्रीतार्थ | हरि० ५ अध्या०
॥२१४॥
COCOC_OCC
Jain Education International
रूपिणः पुद्गला इति ॥ ५-४ ॥ सूत्रम् ।।
धर्मादीनां मध्य इति सूत्रसमुदायार्थः। अवयवार्थ त्वाह- 'पुद्गला एवें' (१२१-२ ) त्यादिना, पुद्गला एव परमाणुप्रभृतयो|ऽनन्तप्रदेशस्कन्धावसानाः रूपिणो भवन्ति, मूर्त्तिमत्तया परिणतिमासादयंति, न धर्म्मादयः रूपिणः, व्याचष्टे - 'रूपमेवा'| मित्यादिना, रूपं मूर्त्तिः एषां पुद्गलानां परमाण्वादीनां अस्ति विद्यते, षष्ठीप्रदेशनात् कथंचिदभिन्नं, एषु वा पुद्गलेष्वस्तीति, तिलतैलवत् कथंचिद्भिन्नमिति सप्तम्योक्तं, तदेवमेते रूपिणः, नित्यत्वमवस्थितत्वं चैतेपामपि समस्त्येव, सामान्येन तद्भावाव्ययतया न्यूनाधिकत्वाभावेन चेति । एतद्विशेषाभिधित्सयोवाच
आकाशादेकद्रव्याणीति ॥ ५५ ॥ सूत्रम् ॥
आकाशान्तानि धर्मादीनि एकद्रव्याणीति सूत्रसमुदायार्थः।। अवयवार्थं त्वाह- 'आकाशादि त्यादिना (१२१-५) अभिविधिवाचित्वादाङो द्वित्वं, ततश्च संहितया सूत्रपाठस्तं विवृणोति, आ आकाशाद्, अध्यायादिसूत्रोपपन्नं क्रममुद्दिश्याकाशं यावत् धर्म्माधर्माकाशानि सूत्रानुपूर्व्योक्तानि, किमित्याह-एकद्रव्याण्येव, तेषां समानजातीयानि द्रव्यान्तराणि न सन्तीत्यर्थः, अवधारणफलदर्शनायाह- पुद्गलजीवारत्वनेकद्रव्याणीति समानजातीयद्रव्यान्तरभावात्, अनेनात्मैकत्वप्रत्येकत्वनिरासः, तदेकत्वे संसा| राद्यभाव इति भावनीयं । एतद्विशेषाभिधित्सयैवाह
निष्क्रियाणीति ।। ५-६ ।। सूत्रम् ।।
अगमनशीलानीति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'आ आकाशादित्यादिना (१२१-८) आ आकाशादेव आका
For Personal & Private Use Only
द्रव्याधिकारः
।।२१४ ।।
www.jainelibrary.org