SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थ- नित्यत्वादि हरि० ५अध्या० द्रवन्तीति द्रव्याणि,न गुणादिमात्र,पश्च एवेति सूत्रमुदायार्थः। अवयवार्थ त्वाह-'य एत' इत्यादिना (१२०-६।७) य एते धर्मादयः प्रथमसूत्रोपदिष्टाः चत्वारो धर्माधर्माकाशपुद्गला जीवाश्च प्रागुक्ताः, किमित्याह-पंच द्रव्याणि भवन्ति, तथा तथा| द्रवणात् , तदेते कायाश्च द्रव्याणि च,उभयव्यवहारदर्शनात , एतदाह-'उक्तं ही'त्यादिना, उक्तं यस्मादिहैव प्रथमे ऽध्याये,किमित्याह-मतिश्रुतयोनियोर्निवन्धो ग्रहणता द्रव्येषु धर्मादिष्वसर्वपर्यायेषु तथाऽविशुद्धग्रहणतया, विशुद्धग्रहणतस्तु केवलस्येत्याह-मर्वद्रव्यपर्यायेषु केवलस्य निबन्ध इति,एतेन तथा द्रवणमाह,विशिष्टज्ञेयतयाऽपरिणतस्य ग्रहणायोगादिति।। एतानि च नित्यावस्थितान्यरुपीणीति ॥ ५-३ ।। सूत्रम् ।। समुदायार्थः प्रकटः। अवयवार्थ त्वाह एतानी'त्यादिना (१२०-१०।११) एतानि द्रव्याणि धर्मादीनि नित्यानि भवन्ति, | तद्भावाव्ययतया, नाप्रच्युतानुत्पन्नस्थिरैकखभावतया, इहोपपत्तिमाह-तद्भावाव्ययं नित्यमिति वक्ष्यते, नैते धर्मादयः कदाचिद्धर्मादिभावं परित्यक्तवन्तः परित्यजन्ति परित्यक्ष्यन्ति चेति, अवस्थितार्थ परिव्याचष्टे-अवस्थितानि न न्यूनाधिकानि | चेत्यर्थः, एतदेवाह-'नही'त्यादिना, न हि यस्मात् कदाचित् कस्मिन् काले पंचत्वं संख्यामधिकृत्य भूतार्थत्वं सतत्वलक्षणं व्यभिचरन्ति, अतद्भावापचया, अरूपिपदं व्याचष्टे-अरूपीणि च अपुद्गलद्रव्याणि, अत एवाह-नैषां रूपमस्तीति विशिष्टरूपप्रतिषेधोऽयं, तथा न समुदायप्रतिषेधः, किं तर्हि ?, आद्यानां चतुर्णा विद्वत्सदस्येकमूर्खभावेऽपि मौर्यनिषेधवत् ,किमिदं | रूपमित्याह-रूपं मूर्तिः रूपरसगन्धस्पर्शानां तथाविधविशिष्टैकपरिणतिरूपा चक्षुरादिग्राह्या, तथा चाह-मूर्त्याश्रयाश्च स्पर्शा| दयः, कदाचिदपि विशिष्टसंस्थानशून्यानामभावादिति ॥ नित्यावस्थितान्यरूपाणीति विशेषामिधाने विशेषवादमाह ॥२१३।। ॥२१३॥ Jan Education International For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy