________________
श्रीतत्वार्थ
हरि० ५अध्या०
अजीवकायाः
S
upermanaspect amarpet nagein antertainm
| परिणतं जीवादिद्रव्यं, तन्नियमधारणात् धर्मः, अस्तयः-प्रदेशाः कायः-संघातः, अस्तीनां कायः अस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, एवमधर्मास्तिकायोऽपि, नवरं यथोदितनियमाधारणाद् अधर्मः, रूदिषु क्रिया व्युत्पत्य नार्थक्रियार्थेति, एवमाकाशास्तिकायोऽपि, नवरं सर्वद्रव्यस्वभावदीपनादाकाशभिति, एवं पुद्गलास्तिकायोऽपि, नवरं पूरणगलनधर्माणः पुद्गला इति, सूत्रेऽस्तिशब्दानुपादानं पदैक देशे पदप्रयोगनीत्या, सूचनात् सूत्रमितिकृत्वा इति, अजीवकायाः जीवकायादन्ये एतावन्त एवेति, तान स्वलक्षणतः प्रत्येकं आत्मलक्षणभेदेन परस्तावक्ष्यामः इत्यग्रे प्रतिपादयिष्यामः,कायग्रहणप्रयोजनमाह-कायग्रहणमिह सूत्रे प्रदेशावयवबहुत्वार्थ' तत्र प्रकृष्टा देशाः-निर्विभागाः विभागाः धर्माधर्माकाशानामसंख्येयाः,लोकाकाशमधिकृत्य,अपृ| थग्भवनाच्च प्रकृष्टत्वं, एवमवयूयन्त इत्यवयवाः स्कंधेषु बहब एव, सङ्ख्थेयासङ्खथेयानन्ता इति, ननु परमाणुरपि पुद्गलास्तिकाय एव, यथोक्तं-"खंधा खंधदेसा खंधपदेसा परमाणुपुग्गला" इति, कथं सावयव इति, अत्रोच्यते, भावावयवैवर्णादिभिः, तथा चोक्तं- "कइविहे णं भंते ! भावपरमाणू पण्णते ?, गोयमा! चउबिहे, तंजहा-वण्णमंते गंधर्मते रसमंते फासमंते" इत्यादि, कथं | परमाणुत्वं ?, द्रव्यावयनिरवयवत्वादिति, द्वितीय फायग्रहणे प्रयोजनमाह-'अखे 'त्यादिना (१२०-४।५) अद्धा चासो समयश्च अद्धासमयः-समयक्षेत्रवर्ती समय एव निर्विभागः, तस्य प्रतिषेधार्थ, स हि समय एव, न काय इत्यर्थः, कायत्वे तु तत्प्रदेशावयवानां सदैव भावात् सदा तत्साचिव्यजधर्मभेदभाव इति भावनीयं, चशब्दः, प्रकारा(कारणा)न्तरसमुच्चयार्थ इति ।। | एते धर्मादयः किमित्याह
द्रव्याणि जीवाश्चेति ॥५-२॥ सूत्रम् ॥
A
॥२१२।।
२१२॥
ent
Jan Education International
For Personal Private Use Only
www.jainelibrary.org