SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ-| --- हरि० वैमानिकजघन्यास्थितिः ४ अध्या० एतद् व्याचप्टे-माहेन्द्रे कल्पे जघन्या स्थितिः, किमित्याह-अधिके द्वे सागरोपमे इति ॥ परतः परतः पूर्वा पूर्वाऽनन्तरा इति ॥४-४२।। सूत्रम् ।। एतद् व्याचष्टे-'माहेन्द्रकल्पात् परत' इत्यादिना (११६-१५) माहेन्द्रात् कल्पात् परतः ब्रह्मलोकादारभ्य पूर्वा स्थितिः परा उत्कृष्टा,किमित्याह-अनन्तरा-जघन्या स्थितिर्भवति,उपरितनकल्प इत्यर्थः,एतदेव दर्शयति-तद्यथे'त्यादिना(११६-१६) माहेन्द्रे कल्पे परा स्थितिः सप्त सागरोपमाणि उक्ता सा बह्मलोके जघन्या भवति, एवं ब्रह्मलोके दश सागरोपमाणि | परा स्थितिरुक्ता, सा लान्तके जघन्या भवन्ति, अतिदेशमाह-एवं मित्यादिना (११७-१) आ सर्वार्थसिद्धादिति सर्वार्थसिद्धू यावत्, आङ् मर्यादायां, विजया दिषु चतुर्पु विजयवैजयंतजयंतापराजितेषु परा स्थितिस्त्रयस्त्रिंशत्, एवं परतः परतः | पूर्वा पूर्वाऽनन्तरेति यावत् भयभवः (उभयसंभवः) तावद्रष्टव्यम् ,अत एव एतेष्विति,जघन्या एकत्रिंशदेव, उत्कृष्टा त्रयस्त्रिंशत् , | मुख्यवृत्त्येव सूत्रेऽभिधानात् , यथोक्तं प्रज्ञापनायाम्-विजयवेजयंतजयंतापराजिअदेवाणं केवइअंकालं ठिती पण्णत्ता ?,गोयमा! |जहोणं एगतीसं सागरोवमाई, उक्कोसेणं तेत्तीसं, सबद्दसिद्धगदेवाणं पुच्छा, गोयमा! अजहण्णमणुक्कोसेणं तेतीसं सागरोवमाई | ठिती पण्णत्ता,” एतदाह-'से'त्यादि (११७-२) तासां विजयादिसम्बन्धिनी उत्कृष्टा स्थितिः, किमित्याह-अजघन्योत्कृष्टा तथैकरूपैव सर्वार्थसिद्ध इति । नारकाणां च द्वितीयादिष्विति ॥ ४-४३ ॥ सूत्रम् ॥ परतः परतः पूर्वा पूर्वाऽनन्तरेति सूत्रमुक्तसम्बन्धमेवेति न सम्बन्ध उक्तः, एतद्वयाचष्टे-'नारकाणांचे'त्यादिना (११७-५), 5 % ॥२१०॥ ॥२१०॥ Jan Education n ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy