________________
श्रीतचार्य-
तिर्यग्लक्षणं भवनवासिस्थितिः
४ अध्या०
| त्यादि (११३-५) सम्बन्धग्रन्थः, उक्तं भवता-द्वितीयेऽध्याये जीवस्यौदयिकेषु भावेषु निरूप्यमाणेषु तिर्यग्योनिरित्युक्तं, तथा स्थिती निरूप्यमाणायां तृतीयाध्यायपरिसमाप्तौ तिर्यग्योनीनां चेत्युक्तं. आश्रवेषु निरूप्यमाणेषु 'तैर्यग्योनस्ये 'ति | वक्ष्यते षष्ठ इति, तत्के तिर्यग्योनय इति प्रक्रमात् प्रश्न इति, उच्यते
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनय इति ॥४-२८ ।। सूत्रम् ।। प्रायो निगदसिद्धमेव, नवरमेकेन्द्रियादयः पश्चेन्द्रियावसाना इति । 'अत्राहेत्यादि सम्बन्धग्रन्थः (११३-१२) स्थितिरुक्ता तृतीयेऽध्याये, अथ देवानां भवनवास्यादीनां का स्थितिः १ इति, अत्रोच्यते
स्थितिरिति ॥४-२९॥ सूत्रम् ।। एतयाचटे-स्थितिरित्यत ऊर्ध्वमध्यायपरिसमाप्तेर्वक्ष्यति ॥ तथा चाह
भवनेषु दक्षिणार्धापतीनां पल्योपममध्यर्द्धमिति ॥४-३० ॥ सूत्रम् ॥ समुदायार्थः प्रकटः,अवयवार्थ त्वाह-'भवनेष्वि'त्यादिना(११३-१७) भवनेषु तावत् सामान्येन दक्षिणाधिपतीनां रुचकविभागेनार्द्धनिकायेन्द्राणां धरणादीनां पल्योपममुक्तलक्षणं अध्यर्द्धमिति अधिकम मस्मिंस्तदिदमध्यर्द्ध, सार्द्धमित्यर्थः, | किमित्याह-परा स्थितिरुत्कृष्टेत्यर्थः,अनेन जघन्याया आक्षेपः,सन्देहापनोदाय स्पष्टमाह-'द्वयोयो रित्यादि (११४-१)द्वयोयोर्यथोक्तयोरिति पूक्तियोर्भवनवासीन्द्रयोः चमरबलिधरणभूतानन्दादिक्रमेण पूर्वः उपन्यासक्रमाद् दक्षिणा धिपतिः अपर उत्तरार्धापतिरिति । तदाह -
॥२०७||
10॥२०७॥
Jan Education n
ational
For Personel Private Use Only