________________
श्रीस्वार्थहरि० ४ अध्या०
।।२०६ ।।
Jain Education International
पातनिकाग्रन्थः, ससूत्रभाष्ये प्रकटार्थे एव, नवरं जन्मादिलोकान्तवर्तित्वात् लोकान्तिकाः, परितसंसारा इत्यर्थः, एते चाष्टविकल्पा भवन्ति, 'तद्यथेत्यादि (११२ - ११) सपातनिकं सूत्र निगदसिद्धमेव, नवरं अत्र दिग्ग्रहणं सामान्येन दिग्विदिक्प्रतिपच्यर्थ, ब्रह्मलोकाधोब्यवस्थितरिष्ठ विमानप्रस्तरवर्त्तिभिः मल्लाक्षवाटकसंस्थिताः अरुणवरसागरसमुद्भूता तिबहलतमस्कायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति, यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापद्येतेति वृद्धाः, तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभागे एते भवन्ति, तत्र मध्येऽरिष्ठा इति एते चासन्नभव्या इत्येतत् सामान्यादेवाह ||
विजयादिषु द्विचरमा इति ।। ४-२७ ।। सूत्रम् ॥
चतुर्षु विमानेष्वति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'विजयादिष्वि' त्यादिना (११३-२) 'विजयादिष्विति विजयवैजयंतजयन्तापराजितेषु चतुर्षु अनुत्तरेष्विति, तदन्यव्यावृत्यर्थमेतत्, एतेषु विमानेषु देवाः किमित्याह-द्विचरमा भवन्ति, द्विचरमत्वमेव स्पष्टयन्नाह - द्विचरमा इति किमुक्तं भवति १, ततश्रयुता इति विजयादिभ्यश्युताः परमुत्कर्षेण द्विर्जनित्वा द्विरुत्पद्य सिद्धयन्तीति, विजयादिविमानाच्युतो मनुष्येषु सिद्धयतीत्यर्थः सकृत् सर्वार्थसिद्धमहाविमानवासिन इति, सकृद् एकं वारं जनित्वा सर्वार्थसिद्धे महाविमाने समुत्पद्य ततयुता मनुष्येषु सिद्धयन्तीति शेषास्तु भाज्या इति, शेषाः पुनर्वैमानिकाः सामान्यदेवा भाज्या इति कदाचित् सकृद् द्वित्रिः चतुःप्रभृति वा मनुष्येषु जन्मासाद्य सिध्यतीति । 'अत्राहे'१ प्राग् ग्रैवेयकेभ्यः कल्पाः (४-२४) २ ब्रह्मलोकालया लोकान्तिकाः (४-२५) ३. सारस्वतादित्यवहुचरुणगर्दतोय तुषिताव्याचाधमरुतः (अरिष्टाश्च) (४-२६).
For Personal & Private Use Only
| विजयादि
प्रभावः
||२०६ ॥
www.jainelibrary.org