________________
श्रीतत्वार्थ
हरि० ४ अध्या.
शक्तिः, एतदेवाह-यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिष्विति, निग्रहानुग्रही प्रतीतौ,विविधा क्रिया विक्रिया|R अणिमादिक्रिया,परामियोगो बलात् पराकणं सौधर्मकाणां देवानां स प्रभावोऽनन्तगुणाधिकः उपयुर्पयशानादौ,मन्दाभिमा-|| नतया तु कारणात् तथाऽल्पतरसंक्लेशाच कारणात् न प्रवर्तन्ते निग्रहादिविति, क्षेत्रस्वभावजनिताचोपर्युपरि शुभपुद्गलपरिणामाद् अनादिपारिणामिकात् न प्रवर्तत इति,एवं सुग्वतः-आल्हादेन युतितश्च-देहच्छायया च असंख्येयगुणप्रकर्षणाधिका उपर्युपरीति, एवं लेश्याविशुद्धयाऽधिकाः उपर्युपरि, लेश्यानियमं परस्ताद्-अग्रे एषां देवानां वक्ष्यति सूत्रकृदेव, इह तु वचने प्रयोजनमिदं यथा गम्यतैतत् यत्रापि विधानतो-विधानात् तुल्याः लेश्यादिभिराधस्त्यैरुपरितनाः तत्रापि, | विशुद्वितः समानजातीया अधिका भवन्तीत्येतद्यथा गम्येत, तथा कर्मविशुद्धिन एव चोपर्युपरि अधिका भवन्तीति | विशुद्धिसूत्रावयवव्याख्या, शुभशुभतरपुण्यफलत्वादुपरिभागस्य, एवमिन्द्रियविषयतोऽधिका इत्येतद् व्याचष्टे-'यदिन्द्रियपाटव'मित्यादि (१०७-८) इति प्रकटार्थ, एवमवधिविपयतोऽधिका इति, एतदेवाह-'सौधर्मेशानयो रित्यादिना (१०८-१)| अवधिविषयेण अनिन्द्रियमर्यादया, निर्यगसंख्येयानि योजनशतसहस्राण्यधिकानि पूर्वेभ्यः, एवं शेषाः क्रमश इति, ब्रह्मलोकलान्तकयो_लुकाप्रभा शुक्रसहस्रारयोः पंकप्रभा आनतप्राणतयोरारणाच्युतयोश्च धूमप्रभा अधो, मध्यमवेयकास्तमःप्रभा उप| रिग्रेवेयकास्तु महाप्रभामिति,अनुत्तरविमानवासिनः पुनः कृत्स्नां समस्तां लोकनाडी लोकमध्यवर्तिनीं पश्यन्ति, न तु लोकमिति, ।'येषा'मित्यादि (१०८-६) येषामपि देवानामितिप्रक्रमः क्षेत्रतस्तुल्योऽवधिविषय उक्तः तेषामुपर्युपरि विशुद्वितो विशु-IR||२०२।। |दयाऽधिको भवतीति ।। एवमाधिक्यममिधायैषामेव हीनत्वमाह
ma
॥२०२।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org