________________
श्रीतार्थहरि०
४ अध्या०
1120011
Jain Education International
भिन्नविभक्तिको निर्देश इह देवघर्म्मख्यापनार्थ इति सूत्रसमुदायार्थः । अवयवार्थमाह- 'एतेष्वि' त्यादिना (१०६-१०) सौधर्मस्य कल्पस्य मेरोरुपर्य्यसंख्ये ययोजनव्यवस्थितस्य मेरूपलक्षितदक्षिणभागा स्थितिः अर्द्धचन्द्राकारस्य, उपशानः कल्प इति, सोऽप्येवंविध एव, किन्तु मेरूपलक्षितोत्तरभागार्द्धस्थितिः मनागूर्ध्वमर्धमिति, 'ऐशानस्योपरी'ति क्षेत्रविभागमात्रेण, बहूनि योजनान्यतिक्रम्य सनत्कुमारः सोधर्मसमश्रेण्यां व्यवस्थितः, एवं सनत्कुमारस्योपरि मनागूर्ध्वमित्यर्थः, माहेन्द्र इत्यैशानसमश्रेणिव्यवस्थितः, अनयोरुपरि बहूनि योजनान्यतिक्रम्य मध्यवर्ती सम्पूर्णचन्द्राकृतिर्ब्रह्मलोकः, इह लोकग्रहणं लोकान्तिकदेवसत्ताख्यापनार्थ, एवमुपर्युपरि लान्तकमहाशुक्र महारास्त्रयः कल्पाः प्रतिपत्तव्याः, विभक्त्युपन्यासस्तित्वह सामान्येनैव तिर्यग्मनुष्येभ्यः | उपपात भेदख्यापनार्थः, तत ऊर्ध्वं बहूनि योजनान्युल्लङ्घय सौधर्मशानकल्पद्वयवदानतप्राणतौ भवतः, विभक्त्युपन्यास इति एकेन्द्रत्वभेदप्रदर्शनार्थः, तदुपरि तत्सम श्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रयोरिव रणाच्युतौ, विभक्तिप्रयोजनं पूर्ववत्, तदुपरि ग्रैवेयकानि बा, इहापि विभक्यलोपे एतावान् मापायशेषसश्वोपपात इति विशेषप्रदर्शनार्थः, तत ऊर्ध्वं विजयादीनि चत्वारि विमानानि, ऐन्या| दिप्रादक्षिण्येन, विभक्त्यलोपस्त्विति निरपायसम्यगुपपात भेदमन्दर्शनार्थः तदुपरि मनाक् सर्वार्थसिद्धमिति, इह विभक्त्यलोपो | द्विचरमोपात भेद प्रदर्शनार्थः । अमुमेवार्थं चेतसि निधायाह-'एवमासर्वार्थसिद्धादिति (१०६ - १२) सर्वार्थमिद्धं यावदुपरीति । कल्पाभिधाननिबन्धनमाह-'सुधर्मे' त्यादिना (१०६ - १३) सभा - प्रासादविशेषः सा तस्मिन् अस्तीति सौधर्मः 'चातुरथिंकोऽन' 'ईशानस्ये' त्यादि तस्य निवाससंबंधेन अणिति, 'एवमिन्द्राणामित्यादि, अतिदेशवाक्यं, 'ग्रैवेयकास्त्वित्यादि, ग्रीवा इति | ग्रीवेव ग्रीवा तस्यां भवाः ग्रैवेयकाः, एवं ग्रीवायां भवाः ग्रीव्याः, एवं ग्रैवेयाः 'दिग्ग्रीवात्याचे 'ति, एवं ग्रैवेयकाः ग्रीवायां प्रायो भवाः |
For Personal & Private Use Only
वैमानिकभेदाः
॥ २००॥
www.jainelibrary.org