________________
श्रीतस्वार्थ
हरि० ४ अध्या०
॥१९६॥
Jain Education International
| न्यह्नां सप्तविंशष्युत्तराण्येकपञ्चाशश्च सप्तषष्टिभागा इत्येवं, ते मासाः नामनिष्पन्ना भवन्ति, विंशतियुगैर्वर्षशतं भवति, दशभिर्व|र्षशतैर्वर्षसहस्रं भवति, शतगुणं वर्षसहस्रं वर्षशतसहस्रं तत्, तच्च चतुरशीतिगुणितमेकं पूर्वांगं, पूर्वांगं चतुरशीतिलक्षेण गुणितं पूर्व, पूर्वतः पूर्वतो विकल्पात् परः परो विकल्पः चतुरशीतिलक्षगुणो वेदितव्यः, तुटगंगाद्यावच्छीर्षप्रहेलिकेति, तुटथं तुटिकं अटटांगं अटटं अववांगं अववो हुहुंकागं हुहुकं उत्पलांगं उत्पलं पद्मांगं पद्म नलिनाङ्गं नलिनं अर्थनिपूरांगं अर्थनिपूरं चूलि - | काङ्गं चूलिका शीर्षप्रहेलिका शीर्षप्रहेलिका, प्रावचनः क्रमोऽयं, आचार्येण तूद्देशमात्रान्तः स्वल्पस्थानचेति, सर्वथा शीर्षप्रहेलि | कान्तः संख्येयः कालो भवति, समयादिरिति, सूर्यप्रज्ञप्तौ सर्वाद्युपांतनामादिक्रमः शीर्षप्रहेलिकान्तः, इत्येतावान् गणितशास्त्र| विषयोऽपीति, अत ऊर्ध्वमुपमानियतं वक्ष्यामः इति संख्येयादेरनन्तरमसंख्येयः कालो भण्यते स च गणितविषयातीतत्वादुपमया नियम्यते, सर्वश्चैष बौद्धव्यवहारः परप्रतिपत्तये अभ्युपगम्यते बाह्यार्थशून्योऽन्यथा परमार्थविचारणायामतिदुष्करं स्यादिदं सर्व, ' तद्यथा ही 'त्यादि, ( १०४ - १५ ) स्यादेतत् पल्योपममिति सुज्ञानं तच्च त्रिविधमद्धापल्योपममुद्धारपल्योपमं क्षेत्रपल्योपमं चेति, पूनर्वादरसूक्ष्म भेदादेकैकं द्विधा, तत्रोक्तलक्षणं भाष्ये वादराद्धापल्योपमं संख्येयवर्षकोटीव्यतिक्रान्तिसमकालं, | तान्येव वालाग्राण्येकैकशोऽसङ्ख्येयान्यदृश्यानि कृत्वा बुद्धया स एत्र पल्यो त्रियते, ततः प्रतिवर्षशतमेकैकवालाग्रोद्वारे वर्षाण्यसं| रूयेयानि व्यतिक्रमन्ति एतत् सूक्ष्ममद्वापल्यम्, अस्य च प्रयोजनमुत्सर्पिण्या विभागपरिज्ञानं ज्ञानावरणादिकर्म्मस्थितयः कायभ| वस्थितयः पृथिव्यादिकायानां निरूप्यन्त इति, उद्धारपल्योपमं तु बादरं स्थूलवालाग्रापहारे प्रतिसमयमेकैकस्मिन् सति भवति, तच्च संख्येयपरिमाणं वेदितव्यं एतान्येव वालाग्राण्येकैकशोऽख्येयखण्डीकृतानि ततः प्रतिसमयमेकैकवालाग्रोद्धारे वर्षकोटिभिः
For Personal & Private Use Only
मासादि
मानं
॥१९६॥
www.jainelibrary.org