SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ h श्रीतत्वार्थ हरि० ४ अध्या० व्यन्तरज्योतिष्काः योजनसहस्रं विहायेति भाष्यकारांभिप्रायः, न चायमन्याय्यो, बहुश्रुतत्वेनास्य क्वचिदित्थं विशेषदर्शनसम्भवादिति । 'भवप्रत्ययाचे'त्यादि,(९७-१६) भवप्रत्ययाश्व-जन्महेतुकाश्चैषाम्-असुरकुमाराणां, न तु तपोऽनुष्ठानसाध्याः, इमा वक्ष्यमाणाः नामकर्मनियमाद्धतोः अङ्गोपांगादिनामकम्मोदयेन खजातिविशेषनियताः प्रतिजातिविशेषकारिण्यः विक्रिया भवन्तिजायन्ते गम्भीराः घनशरीराः श्रीमन्तः सर्वाङ्गसुन्दरा इति । व्यन्तराः किन्नरकिंपुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचा इति ॥४-१२ ॥ सूत्रम् ।। इदमपि प्रायो निगदसिद्धमेव,नवरमध इत्यादिना (९७-१६) अन्वर्थमाह, विविधमन्तरमावामानां येपामिति व्यन्तराः, एत| देव स्पष्टयति 'यस्मादित्यादिना, स्वातन्यतः खेच्छया पराभियोगाच्च शकाद्याज्ञया मनुष्यानपि चक्रधरादीन केचित् |सामान्या:भृत्यवदुपचरन्त्यतो विगतान्तरा मनुष्ये य इति, "विविधेषु चे'त्यादि (९८-१३) अतो व्यन्तरा विगतान्तरत्वा| दिति ॥ तृतीयो देवनिकायः (१०१-६) प्रवचनक्रमप्रामाण्यात् - ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णताराथेति ॥ ४-१३ ॥ सूत्रम् ।। इदमपि प्रायः प्रकटसमुदायावयवार्थमेव, नवरमसमासकरणं सूत्रे सूर्याश्चन्द्रमस इत्येवं सः, तथा चार्षात्, तत्र चन्द्रसूर्यपाठात्, सूर्यचन्द्रमसोः क्रमभेदः कृतः सूत्रकृता, किमर्थमित्याह-यथा गम्येत प्रतरभेदेन एतदेवैषां सूर्यादीनां ऊर्ध्व निवेशः मण्डलिकापोहेन आनुपूर्व्यम् अनुपूर्वभाव इति, एतदेव प्रकटयति-'तयथे'त्यादिना (१०२-१२) ताराग्रहाः पुनरनियतचारित्वात् कारणात, किमित्याह-सूर्यचन्द्रमसामूर्ध्वमधश्च चरन्ति, तु (च) शब्दात् तिर्यक,सूर्येभ्यः सकाशाद्दश .॥१९॥ ॥१९॥ Jan Education n ational For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy