SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ४ अध्या० राह-अत्रोच्यते प्रतिवचनंदेवाश्चतुर्निकायाः इति ॥४-१॥ सूत्रम् ॥ निकायाः प्रश्नद्वयेऽप्यनुरूपं प्रतिवचनमिति सूत्रसमुदायार्थः। अवयवार्थ वाह-'देवा' (९२-८) इत्यादिना ग्रन्थेन, तत्र दीव्यन्तीति ज्योतिदेवाः-स्वच्छन्दचारिणः अनवरतक्रीडासक्तचेतसः परमद्युतिमन्तः प्राणिन एव, ते चतुर्निकाया भवन्ति, चत्वारो निकाया-नि मायाकलेश्या वासाः संघा वा येषां ते चतुनिकाया भवन्तीति, देवगतिनामकर्मोदयाद्भवनादिषत्पद्यन्त इत्यर्थः, अनेनातिमुग्धपरिकल्पितनित्यदेवव्युदासः, 'तान् पुरस्ताद्वक्ष्यामः' इति तान् एतान् निकायमेदमित्रान् देवान् पुरस्तात्-पुरो वक्ष्यामः, उद्देशमात्रोपन्यासस्त्वयं, ननु च भगवत्यां-"कइविहा णं भंते ! देवा पण्णत्ता, गोयमा! पंचविधा देवा पण्णत्ता,तंजहा-भविअदछदेवा गरदेवा धम्मदेवा देवाहिदेवा भावदेवा य," भव्यद्रव्यदेवा-एकमविकादयः, नरदेवाश्चक्रवर्तिनः, धर्मदेवाः साधवः, देवाधिदेवाः तीर्थकराः,भावदेवा भवनपत्यादयः,एवं पञ्चभेदेषु सत्स्वेतेषु किमथ चतुर्निकाया इत्युपन्यासः, उच्यते,भावदेवाभिधानार्थः,तदन्येषां मनुष्यभेदत्वात् इत्यादि, अत एव प्राधान्यत इदमाह तृतीयः पीतलेश्य इति ॥४-२॥ सूत्रम् ॥ समुदायार्थः प्रतीतः, अवयवार्थ त्वाह-'तेषा'मित्यादि भाष्यम् (१२-१०) तेषां चतुणों देवनिकायानां 'भवणवइवाणमंतरजोइसवासी विमाणवासी य'त्ति प्रवचनप्रसिद्धक्रमाणां तृतीयो निकायः तत्सूत्रार्थक्रमोक्तः,किमित्याह--पीतलेश्य इति,तेजोलेश्य एव Onmen भवति, न कृष्णादिलेश्य इति, अवधारणं सूत्रे न, सामर्थ्यगम्यमेतत्, सूचनात् सूत्रमितिकृत्वा, कश्चासौ तृतीय इत्याह-ज्योति ॥१८५॥ DIL Jain Education international For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy