________________
| नृस्थितिः
श्रीतत्वार्थ
हरि० ४ अध्या०
परापरे भवस्थिती, कायस्थितिः सप्ताष्टौ वा भवग्रहणानि, प्रकर्पतः सप्त वाऽष्टौ वेति नैरन्तर्येण मानुषः स्यात् , कथं पुनरिदं ?, | भाव्यते-पूर्वकोव्यायुर्मनुष्यो मृत्वा पुनः पुनः पूर्वकोव्यायुरेव मनुष्यः सप्तकृत्वः प्रादुरस्तीति, अष्टमभवे तु देवकुरूत्तरकुरुपूत्पद्यते || | पश्चाद्देवलोकं गच्छति, 'तिर्यग्योनिजानां चेत्यादि, (९०-१६) उक्ते भवस्थिती सत्रहतः, व्यासतस्तु शुद्धपृथिव्या द्वादश वर्षसहस्राणि खरधरणेः द्वाविंशतिरित्येवमादि सुज्ञानं, एषां पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां कायस्थितिरसंख्येया अवसपिण्यु|त्सर्पिण्यः, साधारणवनस्पतेरनन्ता अवसर्पिण्युत्सर्पिण्यः, 'द्वीन्द्रियाणा'मित्यादि (९१-४) सुज्ञाना भवस्थितिः, एषां कायस्थितिः संख्येयानि एव वर्षसहस्राणि, पंचेन्द्रिये'त्यादि (९१-६) सुज्ञानं,सप्ताष्टौ वा भवग्रहणानि मनुष्यवद्भावनीयानि, 'सर्वेषा'मित्यादि (८१-१३) मनुष्यतिरश्चामपरा कायस्थितिः जघन्याऽन्तर्मुहूर्त्तप्रमाणैव भवतीति ।। तृतीयोऽध्यायः समाप्तः
| नमोऽहते । इदानी चतुर्थ आरभ्यते-अत्र चायं सम्बन्धग्रन्थः, 'अत्राह-उक्तं भवते'त्यादि (८२-१) किमुक्तमित्याह'भवप्रत्ययोऽवधि रकदेवाना' मिति प्रथमेऽध्याये, तथा द्वितीय औदयिकेषु (भावेषु) प्ररूष्यमाणेषु 'देवगति रित्युक्तं, एवमष्टमे 'केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य' आश्रव इति वक्ष्यते,तथाऽत्रैव 'सरागसंयमादयो देवस्य' आयुष | आश्रव इति वक्ष्यते, आदिशब्दात् सरागसंयमसंयमासंयमाकामनिर्जराबालतपसि (च) दैवस्येति सूत्राक्षेपः, तथा द्वितीये 'नारकसम्मूच्छिनो नपुंसकानि' 'न देवा' इत्युक्तं, एवमनेकधा देवशब्दश्रुतेः संजातजिज्ञासः पृच्छति-'तत्र के देवाः' कति|विधा वेति' (९२-५) तत्र-तेषु सूत्रेषु के देवाः प्रतिपत्तव्याः, क्रीडाद्यर्थबहुत्वात्, कतिविधा वा-कतिभेदा वेति प्रश्नद्वये सूरि
॥१८४॥
॥१८४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org