SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ स्थितिः श्रीतचार्थ हरि० ३ अध्या० नृस्थिती परापरे त्रिपल्योपमान्तर्मुहत्ते ॥३-१७॥ सूत्रम् ॥ 'नरौ नर' इत्यादि भाष्यम् (९०-६) पर्यायारव्यानेन व्याख्यानमेतत् नृशब्दस्य, परा-उत्कृष्टा स्थितिः-आयुषोऽवस्थानं | जीवितकालः त्रीणि पल्योपमानि मनुष्याणां, एतानि चाद्धापल्योपमेन जीवानामायूंषि गण्यन्ते, अपरा अन्तर्मुहर्ता जघन्या | स्थितिरायुषोऽन्तर्मुहुर्तपरिमाणा भवति । . तैर्यग्योनीनां च ॥३-१८ ॥ सूत्रम् ॥ तिर्यग्योनिजानामप्यत्रैवोच्यते स्थितिः आयुषः,समानप्रक्रमत्वात्, 'तिर्यग्योनीनां चे' त्यादि भाष्य (९०-८)तिर्यग्योनयः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपंचेन्द्रियाः तेषामपि परापरे स्थिती जीवितव्यस्य त्रिपल्योपमान्तर्मुहूर्ते भवतः, यथासंख्यमुस्कृष्टजघन्यस्थिती बोद्धव्ये, 'पृथग्योगकरणं यथासंख्यदोषविनिवृत्यर्थ' मित्यादि, (९०-१०) नृतिर्यग्योनीनां स्थितिः | परापरे त्रिपल्योपमान्तर्मुहूर्तेत्येवं न्यासे सति त्रिपल्योपमा परा स्थितिर्मनुष्याणां अपरा स्थितिः तिरश्चामन्तमुहूर्तप्रमाणेत्येवं | स्यात् सूत्रार्थ इत्याचार्यामिप्रायः, न खल्वेवमपि न्यस्यमाने कश्चिद्दोषः, स्थिती परापरे इति समुदितमेवेदं समासपदत्वादभिसंमं|त्स्यते, नृणां स्थिती परापरे त्रिपल्योपमान्तर्मुहर्ने तिरश्चां च, व्याख्यानतोऽविच्छेदः, आर्षानुवादित्वाद्वा अस्य सूत्रप्रबन्धस्येति ॥ 'द्विविधा चैषा'मित्यादि भाष्यम् (८५-१३)। नृतिरश्वां द्विप्रकारा स्थितिरायुषो-भवस्थितिः कायस्थितिश्च, तत्र भवस्थितिर्मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति जघन्यत उत्कर्षेण वेति,कायस्थितिर्मनुष्यो भूत्वा तिर्यग्योनिजो वा मरण U मनुभूय पुनर्मनुष्येष्वेव मनुष्यः तिर्यक्षु च तैर्यग्योनिरन्तर्येण कतिकृत्वः समुत्पद्यते ?,तत्र मनुष्याणां यथोक्तत्रिपल्योपमान्तर्मुहर्त | ॥१८३॥ ॥१८३॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy