________________
श्री तच्चार्थहरि० ३ अध्या०
॥१८२॥
Jain Education International
भूमयो भवंति, कार्त्स्न्येन प्राप्ते कर्मभूमित्वे विदेहानामपवादः क्रियते देवकुरूत्तरकुरुवर्जा विदेहाः कर्म्मभूभयो भवन्तीति, तदन्तः| पातित्वान्निषेधः, अथ कः कर्म्मभूमिशब्दार्थ इति, आह- 'संसारदुर्गातगमकस्ये' त्यादि ( ८९ - १२), मार्गों विशिष्यते, संसारोनारकादिभेदः स एव दुर्गो-गहनमनेकाजातिप्रमुखत्वादुःखात्मकत्वाच्च तस्यान्तः - पारं संसारदुर्गान्तस्तं गमयति- प्रापयति यस्तस्य संसारदुर्गान्तगमकस्य, 'सम्यक्त्वज्ञानचरणात्मकस्येति मोक्षाङ्गानामियत्तामावेदयति, एवंविधमोक्षपथस्य ज्ञातारस्तीर्थकराः, | यथावदवगन्तार इत्यर्थः कर्त्तार इति प्रणेतारः प्रदर्शयितार इतियावत्, नित्यत्वात् प्रवचनार्थस्येति, सम्यक्त्वाद्यात्मकं तीर्थं तत्प्रणयनात् तीर्थकरा भवन्ति, गणधरादिप्रवाजनाद्वा, वाग्योगेन चोपदिशन्ति भगवन्त इत्युपदेष्टारः, श्रुतज्ञानाभावादिति सूचयति, यशोलक्ष्म्यादियोगाद्भगवन्तः परमर्षयः कृतार्थत्वे सति सन्मार्गोपदेशेन भव्यसच्चाभ्युद्धरणात्, तीर्थकरण हेतवस्तच्छीलास्तदनुलोमवृत्तयो वा तीर्थकराः, 'अत्रोत्पद्यन्ते' पंचदशसु क्षेत्रेषु, एतेष्वेव पुनः सकलकर्म्मक्षयं विधाय सिद्धिमभिधावन्ति, नान्यत्र क्षेत्र इति, अतो निर्वाणाय कर्म्मणः सिद्धभूमयः कर्म्मभूमय इति, अतः सकलकर्म्माग्निविध्यापनाय सिद्धिप्राप्तौ भूमयः कर्म्मभूमयोऽभिधीयन्त इति परिशेषः, लब्धमकर्मभूमिशब्दार्थमाख्याति - 'शेषास्त्वि 'त्यादि (९० - २) जम्बूद्वीपे हैमवतहरि वर्ष रम्यकहैरण्यवतारव्याश्चतुरो वंशाः, एते एव धातकीखण्डेऽष्टौ द्विगुणाः पुष्करार्द्धेऽष्टौ एकत्र विंशतिर्वशाः, सह अन्तरीपैरेकोरुकादिभिः षट्पंचाशद्भिरकर्म्मभूमयो भवन्ति, तीर्थकरजन्मादिरहितत्वात् पूर्वापोदितमर्थमुपसंहरति- 'देवकुरूत्तरकुरवस्तु कर्म्मभूम्य| भ्यन्तरा अप्यकर्मभूमय इति, (९ : ३) सर्वदा चरण प्रतिपत्तेरभावादित्यवगमयति ।। अथैते मनुष्या आर्यादिभेदवर्त्तिनः कियन्तं कालमनुपालयायुः प्राणान् विजहतीत्याह
For Personal & Private Use Only
कर्माकर्मभूमयः
॥१८२॥
www.jainelibrary.org