________________
श्रीतस्त्रार्थ
हरि० ३ अध्या०
॥१८०॥
Jain Education International
| एतद्विपरीता म्लेच्छा अत्यन्ताव्यक्तानियतभाषावैष्टत्वात्, 'तत्र आर्याः षड़िधा' इत्यादि, क्षेत्रजातिकुलकर्म्मशिल्पभाषाभेदेन, 'तत्र क्षेत्र आर्या इत्यादि सुज्ञानं, 'जात्यार्या इक्ष्वाकव' (८७-११) इत्यादि सर्व एते जातिभेदाः केनचित् निमित्तांतरेणाध्यवसेयाः, 'कुलार्याः' इत्यादि (८७ - १३) निमित्तभेदेन भिद्यन्ते, अपरे परिभाषन्ते पित्रन्वयो जातिः मात्रन्वयः कुलं 'कर्मा' इत्यादि (८७-१५) अनाचार्यजं किल कर्म्म, तत्रार्याः कर्म्मार्या इति, आचार्योपदेशशिक्षितं शिल्पं तन्तुवायादि, तत्रार्याः शिल्पार्या इत्यादि 'भाषाऽर्या नामे' त्यादि (८८ - १) शिष्टाः सर्वातिशयसम्पन्ना गणधरादयः तेषां भाषा संस्कृताऽर्धमागधिकादिका च तत्र शिष्टभाषानियता अकारादयो वर्णा विशिष्टेन पौवापर्येण सन्निवेशिताः यस्य शब्दप्रधान संव्यवहारस्यासौ शिष्टभाषा नियतवर्णस्तं, लोकरूढ्याऽत्यन्तप्रसिद्धः संव्यवहारे, तमेवंविधं पंचविधानामार्याणां क्षेत्रादिकं भाषते ये ते भाषाssर्याः इति । एतद्विपरीता ग्लिश:' (८९-४) उक्त क्षेत्रजातिकुलकर्म्मशिल्पभाषाव्यतिरिक्तक्षेत्रादिषट्कभाजः सर्वे मिलशो भवंति, शकयवनकिरातकांबोजवाल्ही कादयोऽनेकमेदाः, तथा अन्तरद्वीपकाः किल म्लेच्छा एव, क्षेत्रादिषट्कविपर्ययात् 'तद्यथा| हिमवतः प्राक् पश्चाच विदिक्षु' इत्यादि माध्य. (८९ - ४) हिमवतः प्राग्भागे पञ्चाद्भागे च विदिक्षु पूर्वोत्तरान्तरालादिषु श्रीणि त्रीणि योजनशतानि लवणजलधिमवगाह्य द्वीपकाः प्रथमतः सन्निविष्टाः, तासां मनुष्यविजातीनामेकोरुकादीनां पूर्वोत्तर| स्यां दिशि त्रीणि योजनशतान्यवगाह्य लवणसागरजलं त्रिशतायामविष्कम्भः प्रथम एकोरुकाभिधानो द्वीप एकोरुकपुरुषाणामधिवासः, द्वीपनामतः पुरुषनामानि ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शनमनोरमा एकोरुका एवेत्येवं शेषा अपि वाच्याः, तथा | दक्षिणपूर्वस्यां दिशि ( लवणजलधिमंत्रगास) हिमवतः त्रीणि शतानि त्रिशतायामविष्कम्भः प्रथमो द्वीप आभाषिकाभिधानः
For Personal & Private Use Only
आर्या
नार्याः
1182011
www.jainelibrary.org