________________
खंडः
दक्षिणं शोध्यं शेषार्द्ध बाहुरिति, उदग्धनुःकाष्ठमिदं २५३३० चत्वारश्चैकोनविंशतिभागाः, अमुष्माद्दक्षिणं धनुःकाष्ठं पात्यते, श्रीतत्त्वार्थ- | तचिदं १४५२८ एकादश चैकोनविंशतिभागाः,पातिते उपरितनराशिरयं १०७ ०२,अधस्तादेकादश कला न पतंति चतसृभ्यः | धातकीहरि०
कलाभ्य इतिकृत्वा उपरितनराशेः रूपमवतार्यते, एकोनविशतिमध्यादेकादश शुद्धा अष्टौ शेषाः, कलाचतुष्टयक्षेपाद्वादश जाताः,* २ अध्या०
पअन पद, उपरितनराशिनं ददात्यर्द्धमतो रूपमेकमवतार्यते,एकोनविंशतिरपि नार्द्ध ददातीत्येकोनविशते रूपं नीयते, तस्यार्द्धन
अर्द्धकला, अष्टादशानामन नव, नव पद् च पञ्चदश कलाः सार्दा जाताः, उपरितनराशेरट्टे चेदं ५३५०, एतावती बाहुः क्षुल्लहिमवत इति, अनेन परिक्षेपाद्यानयनकरणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानां चायामविष्कम्भज्येषुधनुःकाष्ठप्रमाणान्यवगन्तव्यानीति । अपरे पुनर्विद्वांसोऽतिबहूनि स्वयं विरचय्यास्मिन् प्रस्तावे सूत्राण्यधीयते विस्तरप्रदर्शनाभिप्रायेण. तत्वयुक्तम , अयं संग्रा| हिणा संक्षेपः कृत इत्यत्र विस्तरामिधानमपाचीनमाचक्षते प्रवचननिपुणाः, अथ विस्तरतो विभक्तिस्ततो ग्रन्थलक्षापरिभाषितायाः जम्बूद्वीपदेशनायाः पटुप्रज्ञेस्तैविस्तृणद्भिरपि कियदत्र विस्तृतं स्यात् ?, विस्तरार्थिनो बहुगुणः सिद्धान्त एव तत्कृतसूत्रेभ्यः इत्यत उपेक्षणीयस्तदमिप्राय इति । एवमिमा जम्बूद्वीपवक्तव्यतां परिसमाप्य समासतः सम्प्रति द्वीपान्तरवक्तव्यताभिधित्सयोवाच
द्विर्धातकीविण्डे ॥ १२ ॥ सूत्रं ॥ ___ 'य एते मंदरवंशा'इत्यादि (पृष्ठं ८५-१) भाष्यं, लवणजलधेबहिर्धातकीखंडः द्वीपः, धातकीवृक्षसम्बन्धाद् , वलयाकृति॥१७५॥ लक्षा लक्षाचतुष्टयविष्कम्भः,तस्मिन् धातकीखण्डे मन्दरादयो जम्बूद्वीपमन्दरादिभ्यः संख्यया द्विगुणद्विगुणमाना वेदितव्याः, जम्बूद्वीपे
| ॥१७५॥ मेरुरेकः, तत्र द्वौ, पूर्वापरदिग्मध्यव्यवस्थितौ मेरू, वंशा भरतादिक्षेत्राण्यैरवतपर्यवसानानि, तानि च तत्र द्विसंख्यायुक्तानि,
Jan Education International
For Personal & Private Use Only
swww.jainelibrary.org