SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीतस्वार्थहरि० २ अध्या० ॥ १७१ ॥ Jain Education International भवन्ति, मेरोः पूर्वतः पूर्वेऽपरतोऽपरे, तत्र पूर्वविदेहेषु षोडश चक्रवर्त्तिविजया नदीपर्वतविभक्ताः परस्परस्यागम्याः चक्रबर्त्तिनां विजेतव्या विभोक्तव्याश्च, नदीभिर्गिरिभिश्च विभक्ताः परस्परेण अगम्याः क्षेत्रविशेषा इत्यर्थः, अधुना अपरानपि अति| दिशति - अपरेऽप्येवंलक्षणाः षोडशैव चक्रवर्त्तिविजयाः सरिद्भिरिविभक्ताः परस्परासम्भाव्यमानगमना इति ॥ अधुना उत्तरभागवर्त्तिपर्वतान् प्रमाणतो निदर्शयति 'तुल्यायाम' इत्यादि भाष्यमेव सुज्ञानं, 'क्षुद्रमन्दरास्त्वि'त्यादि, धातकीखण्डे द्वौ पुष्करद्वीपार्धे द्वावित्येवं चत्वारोऽपि क्षुल्लकमन्दरा भवन्ति, जम्बूद्वीपमध्यवर्त्तिमे रोहनप्रमाणाः, तच्च दर्शति महामन्दरात् पंचदशभियोजन सहसैर्हीनोच्छ्रायाः, चतुरशीतियोजनसहस्रोच्छ्रिता इत्यर्थः, तथा षड्भिर्योजनशतैर्धरणितले ही| नविष्कम्भाः चतुःशताधिक नवसहस्रविष्कम्भा इत्यर्थः तेषां चतुर्णामपि प्रथमं काण्डं महामन्दरतुल्यं धरणिमवगाढं, सहस्रप्रमाणमित्यर्थः, द्वितीयं सप्तमिहीनं, षट्पञ्चाशत्सहस्रमानं, तृतीयं काण्डं अष्टाभिः सहस्रैर्हीनं महामेरोः सकाशाद्, अष्टाविंशतिसहस्रप्रमाणमित्यर्थः, भद्रशालनन्दनवने महामंदरे व द्रष्टव्ये, धरण्यां भद्रशालवनं तदुपरि पंचशतात् नन्दनमिति, तदुपरि अर्धषट्पंचाशत्सहखाण्यारुह्य सौमनसं, पश्च शतानि नन्दनवनेनाक्षिप्तानि, सौमनसेन पंच शतानि, आक्षितानि, | द्वितीय काण्डस्यान्तेऽर्द्ध षड्पंचाशत्सहस्राणि गत्वा तत् पंचशतविस्तीर्णमेव भवति, ततोऽपि विंशतिसहस्राणि आरुह्य पाण्डकवनं चतुर्णवतचतुः शतविस्तीर्ण मेवावसेयं, तत्रोपरि अवश्य विष्कम्भोऽवगाह्य तुल्यो महामन्दरेण यथासंख्यमत्रामिसम्बन्धः उपरि मस्तके यो विष्कम्भः स महामन्दरेणैषां तुल्यः, सहस्रप्रमाण इत्यर्थः, अधश्च योऽवगाहः सोऽपि महामन्दरेण तुल्यो योजनदशसहस्रमान एषां मवन्ति, चूलिका चैषां महामन्दरचूलामदृशी प्रमाणतोऽव सातव्येति । अधुना For Personal & Private Use Only वर्षधराः ॥ १७१ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy