________________
श्रीताचार्थ-I
वर्षधराः
हरि०
२अध्या०
माणं महाहिम सर्वेषां, उच्छामा हिमवदादीनां पविक आचार्यः, चार
|तिभागो योजनस्य, निषधनीलयोः षोडश सहस्राण्यष्टौ शतानि यूत्तरचत्वारिंशताधिकानि भवन्ति द्वौ चैकोनविंशतिभागौ योज-|| नस्य, विदेहानां त्रयस्त्रिंशत् सहस्राणि षट् शतानि चतुरशीत्यधिकानि चत्वारश्चैकोनविंशतिभागा योजनस्येति, 'परतो विदेहे- | भ्योऽर्द्धार्द्धहीना'इति नीलादीनां प्रमाणमाचष्टे लापविक आचार्यः,विदेहक्षेत्रेषुतः अर्द्धहीनो नीलेपुर्भवति,सोऽर्द्धहीनो रम्यकेषुः, इत्येवं यावदेरावतक्षेत्रमिति, अधुनैषां हिमवदादीनां कुलपर्वतानामवगाहोच्छ्रायौ प्रतिपादयति-'पञ्चविंशती'त्यादि, उच्छ्रायचतुर्भागोऽवगाहः सर्वेषां, उच्छ्रायो योजनशतम् अवगाहः पञ्चविंशतियोजनानि हिमवतः, एतदेव द्विगुणं समुच्छ्रायोऽवगाहप्रमाणं महाहिमवतः योजनशतद्वयसमुच्छायः पञ्चाशदवगाहः, एतद्विगुणं निषधस्य चत्वारि शतान्युच्छायः शतमवगाह इति, नीलादीनां निषधादिमिः तुल्यौ उच्छायावगाहौ इति । इदानी जीवाधनुःकाष्ठे कथयति-'भरतवंशस्ये'त्यादि (१०८२-१६) भाष्यम् , हिमवत आराद्भागवर्तिनी जीवेयं प्रतिपत्तव्या, धनुःकाष्ठं च, इषुर्यथोक्तो विष्फम्भ इति, प्रागभिहितोऽपि पुनरिहोयन्यस्त इषुरिति, तत्रैवं नोक्तस्तस्मात् पुनरुपन्यास इति, 'भरतक्षेत्रमध्ये 'इत्यादि, वैतादयपर्वतो दक्षिणोत्तरार्धविभागकरो विद्याधराधिवासः पंचाशत्पष्टिनगरयुक्तः दक्षिणोत्तरश्रेणिद्वयालंकृतो गुहाद्वयोपशोभितश्च प्रतिपत्तव्यः, 'विदेहेम्वित्यादि, मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवो भवन्ति, ते च काञ्चनपर्वतशतेनोपशोभिताः, हृदपञ्चकोभयपर्यन्तावस्थितेर्दशदशमिः काञ्चनपर्वतैर्विभूषिताः, शीतोदानदीपूर्वापरगौ निषधाच्चतुस्त्रिंशाष्टशतसचतुःसप्तभागान्तरौ चित्रविचित्रकूटौ योजनसहस्रोचौ तावदधोविस्तृतौ तदर्धमुपरि, ताभ्यां विराजिता इति । 'विदेहा इत्यादि, मन्दरगिरिणा देवकुरूत्तरकुरुभिश्च विभक्ता व्यवच्छिन्नमर्यादाः स्थापिताः एते क्षेत्रान्तरवद्भवति, तत्र मनुष्यादीनां परस्परंण गमनाभावात् , अतः पूर्वे चापरे च उभये विदेहा
॥१७०॥
Sam
॥१७॥
Jan Education r
ational
For Personal
Only