________________
वर्षधराः
श्रीतत्वार्थ
हरि० २ अध्या०
विदिशां चाऽऽग्नेय्यादीनामेकैकाकाशप्रदेशरचनाहितस्वरूपाणां मुक्तावलीसन्निभानां चतसृणामेव भावात्ः, उपरिष्टात्तु चतुःप्रदेशात्मिकैव विमला,अधस्तु तमोऽभिधानेति दश दिश इति,उक्तं च-"अट्ठपएसो रुअगो तिरियं लोअस्स मज्झयारम्मि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१।। इंदग्गेई जम्मा य णेरइया वारुणी अ वाया। सोमा ईसाणाऽविअ विमला य तमा य बो
वा ।।२।।" इति ॥ कृतं विस्तरेण ।। | तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनीलममिशिग्वरिणो वर्षधरपर्वता इति ॥११॥ सूत्रम् ।।
तानि विभक्तुं शीलमेपामिति तद्विभाजिनः, पूर्वापरायता अकृत्रिमनिवेशत एव, हिमवदादयो वर्षधरपर्वता इति सूत्रसमुदा-2 | यार्थः, अवयवार्थस्तु तेषां वर्षाणां विभक्तार' इत्यादि (पृ. ८२-७) भाष्यादवसेयः, एतच्च प्रायो गतार्थ, नवरं एवं शेषा | इत्यत्र हरिवर्षविदेहयोर्विभक्ता निपधः, विदेहरम्यकयोविभक्ता नीलः, रम्यकहरण्यवतयोविभक्ता रुक्मी, हिरण्यवतैरावतयोर्वि| भक्ता शिखरीति । एषामेव क्षेत्राणां प्रमाणमाह-तत्र पंच योजनशतानि पविंशत्यधिकानि पडेकोनविंशतिभागा योजनस्य भर| तविष्कम्भः, भरतं ह्यारोपितचापाकारं तदस्यायमिषुरिति, एवमेकमभिधाय शेषाभिधित्सयाऽऽह-'स द्विििहमवद्वैमवतादी
नामामहाविदेहेभ्य इति' स भरतेपुः द्विगुणो द्विगुणः हिमवद्वैमवतादीनामिति पर्वतक्षेत्राणां भवति, आमहाविदेहेभ्यो | महाविदेहानि यावत् , तद्यथा-हिमवच्छिखरिणोः योजनसहस्रो ह्युत्तरपञ्चशताऽधिका द्वादशाधिकैकोनविंशतिभागा योजनस्य, हैमवत हिरण्यवतयोः सहस्रद्वयं शतं च पश्चोत्तरं पञ्च चैकोनविंशतिभागा योजनस्य, महाहिमवद्रुक्मिणोश्चत्वारि सहस्राणि शतद्वयं दशोत्तरं दश चैकोनविंशतिभागा योजनस्य, हरिरम्यकयोरष्टौ सहस्राणि चत्वारि शतान्येकविंशत्यधिकानि एकश्चैकोनविंश
॥१६९॥
॥१६९॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org