________________
मानुषोत्तरः
श्रीतवार्थ
हरि० २ अध्या
| नवरं त्रयस्त्रिंशत्मागरोपमस्थितिगृह्यते, एतावन्ति मागरोपमाणि यस्याः स्थितेः सा एतावत्मागरोपमेत्येवं मर्वत्र योजनीयं, | इदंचागमसिद्धमेव, योजनविस्तृतः पल्यः तथा योजनमुच्छ्रितः, सप्तरात्रिप्ररूढानां केशाग्राणां स पूरितः, ततो वर्षशते पूर्ण एकक | केशमुद्धरेत , क्षीयते येन कालेन तत् पल्योपममुच्यते, कोटीकोटयो दशैतेषां पल्यानां सागरोपममितिवचनात् . जघन्यां तु स्थिति परस्तावक्ष्यते चतुर्थेऽध्याये 'नारकाणां चेत्यादिना (४-४३) सूत्रेण, तथा ये प्राणिनोऽसंज्ञिप्रभृतयः यासु भृमिघृत्पद्यन्ते उद्वृत्ताश्च यतो ये भवन्ति सम्यग्दर्शनादि वा लभन्ते तदेतदपि प्रकटमेव ।। द्वीपसमुद्रपर्वतादिप्रतिषेधः शर्करप्रभादिविषयः, इहेवा| पवादमाह 'अन्यत्रे'त्यादिना (पृ. ७७-२) समुद्घाने गताः केवलिनः, औपपातिका नारका एव, तथा वैक्रियलन्धिसंपन्नाः, पूर्व| जन्ममित्रादयः, नरकपालाः परमाधार्मिकाः, एते सर्वेऽपि द्वितीयादिषु कदाचित् केचित् केचित् संभवेयुरपीति, उपपातमङ्गीकृत्य रत्नप्रभायामेव देवाः मन्ति,न शेषासु, गमनमङ्गीकृत्य यावत्तृतीया, ततः परं न गच्छन्ति एव, शक्ता अपि लोकानुभाबादेवेति, | अयमन्यो लोकानुभाव एव 'यच्च वायव' इत्यादिनो(पृ. ७७-५)क्त इति ।। सूत्रान्तरसंबन्धार्थमाह-'अत्राहे'न्यादि, (पृ. ७७-९) |'उक्तं भवता लोकाकाशेऽवगाह'इति (५-१२) पंचमेऽध्याये, तथा दशमे 'तदनन्तरमूवं गच्छन्त्यालोकान्तादित्युक्तं (१०-५), तत्र लोकः स्वरूपेण, कतिविधो वा अधोलोकादिभेदन, किसंस्थितो वाऽऽकृतिमधिकृत्येति, अत्रोच्यते, पंचास्तिकाय | समुदायो लोक; धर्मादयोऽस्तिकाया इति,ते चास्तिकाया धादिकाः स्वतस्वतः स्वरूपतः विधानतो भेदतः लक्षणतश्चोतगत्यादिलक्षणभेदेन उक्ता मनागिह अन्यत्र प्रकरणान्तरे वक्ष्यन्ते च प्रतिपदमेव पश्चमेऽध्याये, म च लोकोऽधिकृतःक्षेत्रविभागेन त्रिविधः त्रिप्रकारः अधस्तिर्य गूर्व चेति दर्शयिष्यामः,संस्थानाग्थ्यानायाह-'धम्म'त्यादि,(पृ.७७-१४) धर्माधर्मा
॥१६५॥
॥१६५॥
Jan Education international
For Personal
e