________________
श्रीतत्त्वार्थ-
हरि० २ अध्या०
कष्टमित्यादिना तु शब्दपरिणाममिति, प्रकटार्थमेतत् , तृतीयमपि अशुभतरदेहा इत्यादि निगदसिद्धं यावत्तेषु शरीराणि भवन्ति, तेविति नरकेषु, अतोऽधिकृतशरीरिभ्यः अशुभतराणि चाधोऽधो भवंति, क्लिष्टतरादिकर्मभेदात् , प्रमाण चैहैषां RI परिणामा| 'सप्त धषी'त्यादि, उत्सेधाङ्गुलमधिकृत्यैतत् , परमाण्वादिक्रमेण अष्टौ यवमध्यान्यजुलं चतुर्विंशत्यङ्गुलो हस्तश्चतुर्हस्तं धनुरिति, शुभता |एतच्च रत्नप्रभायां भवधारकशरीराणामुत्कर्षेण, जघन्येन त्वकुलासङ्खयेयभागोऽस्यामन्यासु च शेषासु, किमेतदित्याह-द्विर्द्विः शे|पासु,रत्नप्रभानारकशरीरप्रमाणं द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणं, एतदपि द्विगुणं तृतीयस्यां नारकशरीरप्रमाण,एतदपि द्विगुणं एवं यावत् सप्तम्यां पंच धनुःशतानि पूर्णानीति, उत्तरवैक्रियं तु प्रथमायां जघन्येनाला(ल)सङ्ख्येयभागमितमन्यासु च, उत्कर्षेण पंचदश धनूंषि अर्धतृतीयाश्च रत्नयः, एतदेव द्विगुणं द्वितीयस्यामेवं ज्ञेयं यावत् सप्तम्यां धनुःसहस्रमिति, एतच्च प्रमाण रत्नप्रभादिषु पर्यन्तवर्तिप्रतरेषु नारकाणामुत्कृष्टं द्रष्टव्यं,आयुः जघन्यमुत्कृष्टं च प्रथमप्रतरादिभेदेन भिद्यमाना दशनवतिसहस्रादिना रत्नप्रभायां पर्यन्तप्रतरे सागरोपमप्रमाणं भवति, एवमेव शरीरप्रमाणमपि प्रथमप्रस्तारादिभेदेन जघन्योत्कर्षाभ्यां भेत्तव्यमिति, | तदुक्तं स्थितिवच्चोत्कृष्टजघन्यता बेदितव्या'उदितभेदेन शरीरप्रमाणस्येति, 'अशुभतरवेदना इत्यादि (पृ. ७०-१३) एतदपि प्रायो निगदसिद्धमेव यावत् सूत्रान्तरमिति, नवरम् 'उष्णशीते चतु'मिति, नवरमुष्णशीते द्वे वेदने भवतः प्रस्तारभेदेन, तत्रोष्णवेदना बहुतराणां शीतवेदना स्वल्पतराणामिति,एवम् 'शीतोष्णे पंचम्या मिति शीतवेदना बहूनामुष्णवेदना त्वल्पानामिति, परयोः षष्ठीसप्तम्योः शीता शीततरा च वेदना यथासंख्यमिति, दृष्टान्तोऽत्रासद्भावप्रज्ञापनया, नारकाणामानयनाभावात् , |
||१६३॥ | तत्र चाम्ययोगात् , स हि पृथिवीकाय एवात्युष्णोऽन्धकारश्चेति ।।
॥१६३
Join Education traernational
For Personal & Private Use Only
www.jainelibrary.org