SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० २ अध्या० ॥ १६२॥ Jain Education International भभाववियोग शुभो वा भवत्येतावन्तमपि कालमित्येतदपि नास्तीति नित्या उच्यन्ते तद्व्याख्यांगत्वेनैव नित्यशब्दः इहाभीक्ष्णवचनो द्रष्टव्यः, नित्यप्रहसितादिवदिति, 'अशुभतरलेश्या' इत्यादि व्याचष्टे एतद्, कपोतलेश्या रत्नप्रभायाः प्रकृत्यसुन्दरापि तीव्रसंक्लेशाध्यवसाना, विशेषेण अध्यवसानं द्रव्यसाचिव्यजनित आत्मपरिणामः, ततस्तीव्रतरसंक्लेशाध्यवसाना कापोतैव शर्कराप्र भायां तद्रव्यभेदात्, ततस्तीव्रतरसंक्लेशाध्यवसाना नीलकृष्णा धूमप्रभायां, इहापि प्रस्तारभेदेन नीला तीव्रतमा, कृष्णातु (न) तीत्रेति, ततस्तीव्रतर संक्लेशाध्यवसाना कृष्णैव द्रव्यभेदेन तमः प्रभायां ततस्तीत्रतराध्यवसाना कृष्णैव महातमः प्रभायां परमकृष्णरूपा, द्रव्यभेदादिति, कथं अस्यां सम्यग्दर्शनलाभः १, उच्यते - सर्वास्त्रविरोधात्, यथोक्तं- "सम्मत्तसुअं सबासु लहइ सुद्धाखित्यादि, क्षीणप्रायायुषां चैषां शुद्धापि भवतीत्यविरोधः, 'अशुभतरपरिणाम' इत्यादि, एतद् व्याचष्टे -' बन्धने'त्यादि, बन्धनं च गतिश्चेत्यादिर्द्वन्द्वः, एत एव बन्धनादयः आख्या यस्य परिणामस्येति प्रक्रमः, स एव तदाख्यः, किमित्याह - दशविधोऽप्यशुभः | पुद्गलपरिणामो नरकेषु तत्र बन्धनपरिणामस्तत्तत्पुद्गलैः सम्बन्धलक्षणः महाम्यादिसम्बन्धाधिकः, गतिपरिणामः उष्ट्रादि| गतिरूपस्तप्तलोहादिपदन्यासाधिकः, संस्थानपरिणामो जघन्यहुण्डाकृतिः, भेदपरिणामः शस्त्रादिभ्योऽतिवीभत्सः, वर्णपरिणामः परमनिकृष्टोऽतिभीषणः, गन्धपरिणामः खरुटगालाधिको यथा, रसपरिणामः कोशातकीश (त्रा ) यमाण निस्यंदाधिकः, स्पर्शपरिणामः वृश्चिककपिकच्छ्रादिस्पर्शाधिकः, अगुरुलघुपरिणामोऽतितीत्रातिदुःखाश्रयः शब्दपरिणामः खरपरुषादिरूपोऽतिदुःखद इति, एवम| शुभः पुद्गलपरिणामो नरकेषु सामान्येन अशुभतरश्चाऽऽबाधः तद्रव्यभेदादिति, साम्प्रतमिहैव दशविधः (धं) परिणामो (मं) भव्यसंवेगार्थं किंचिद्विशेषत आह-' इह तिर्यगूर्ध्वमधश्चे' त्यादि, अनेन वर्णपरिणाममाह, शृगालमार्जारादिना तु गन्धपरीणामं, हा मातः अहो For Personal & Private Use Only CHOCOCOG: परिणामाशुभता ।।१६२।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy