________________
श्रीतत्त्वार्थ
हरि० २ अध्या .
परिणामाशुभता
दश त्रीणि एकं पंचोनं नरकावासशतसहस्रमिति यथासंख्यं सामान्येन आ षष्ठथा इति षष्ठी यावत् , षष्ठयां पंचोनं लक्षं | इत्यर्थः, सप्तम्यां तु पृथिव्यां पंचैव महानरकाः,इह प्रकीर्णका न संति एवेति,एते चाषष्ठयाः केचित् संख्येययोजनप्रमाणाः केचिदसंख्येययोजनप्रमाणा इति,सप्तम्यां त्वप्रतिष्ठानो जम्बूद्वीपतुल्यः, कालादयस्त्वसंख्येययोजनसहस्रप्रमाणा इति, एते च बुनभागे योजनसहस्रबाहल्याः,शुपिरमप्येतावदेव चूडा चेति त्रियोजनसहस्रप्रमाणा एवेति । नरकानेवाधेयधर्मविशिष्टानमिधातुमाह
नित्याशुभतरलेश्यापरिणामदेहवेदनावैक्रिया इति ॥ ३ ॥ सूत्रं ॥ एतत्सम्बन्धनिबन्धनत्वाल्लेश्यादीनामेतेषामेवातिशयासुन्दरत्वाभिधानं,'तात्स्थ्यात् तद्व्यपदेश'इति नीतेः, सूत्रसमुदायार्थः । | इत्थं चैतदाह अवयवार्थ-'ते नरका' इत्यादिना (पृ. ६८-१६) ते नरका अनन्तरोदिता भूमिकाक्रमेण रत्नप्रभादीनामधोऽधः, किमित्याह-निर्माणतः संस्थाननिर्वृत्तेः अशुभतराः संक्लेशजनकत्वेन, एतदेवाह-अशुभा रत्नप्रभायां, सामान्येन भयानकाः,ततो रत्नप्रभानरकेभ्यः अशुभतराः-अनिष्टतराः शर्कराप्रभायां,ततोऽपि शर्कराप्रभानरकेभ्यः अशुभतराः वालुकाप्रभायां, इत्येवमासप्तम्याः सप्तमी यावत् अशुभतरा अशुभतमा अशुभतरतमा इति,एवमेते सामान्यत एवाशुभाः । अधुना नित्यार्थमाह-नित्यग्रहणमिह गतिजातिशरीरांगोपांगकर्मनियमादिति नरकगतिनरकपंचेन्द्रियजात्योऽयं शरीरांगोपाङ्गकर्म तथाविधवैक्रियनिमिर तन्नियमात् त एते सूत्रोक्ता लेश्यादयो भावाः नरकगतौ नरकजातौ च वर्त्तमानानां, न शान्तिका(या)नामपि, तत्सामर्थ्यात् नैरन्तर्येण-अविच्छेदेन, आभवक्षयोद्वर्तनात् भवन्ति, भवक्षय एव सति उद्वर्तन्ते, नान्तराले कापि तत्क्षयः इत्याभवक्षयोद्वर्त्तनादित्याह, नैरन्तर्यार्थ च स्पष्टयन्नाह-न कदाचिदक्षिनिमेषमात्रमपि न भवंति,एतावन्तमपि कालं नाशु
॥१६शा
॥१६॥
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org