________________
COMIMIC
श्रीतवार्थ
हरि०
२ अध्या
संखेण निद्दिट्ठा ।।२।। तिभागो गाउअं चेव, तिभागो गाउअस्स य । आइदुवे पक्खेवो, अहो अहो जाव सत्तमिए, ३ इत्यादि, इह रत्नप्रभायां घनोदधिवलयविष्कम्भः पड़ योजनानि, पनवातवलयविष्कम्भः अर्द्धपंचमानि, तनुवातवलयविष्कम्भतस्तु सार्द्ध | योजनमिति, यथोक्तप्रक्षेपात्तु प्रतिपृथिवि भेदेन सप्तम्यां घनोदधिवलयविष्कम्भौ अष्टौ योजनानि धनवातवलयविष्कम्भस्तु द्वे इति।।
तासु नारका इति ॥ २॥ सूत्रम् ।। समुदायार्थः प्रकटः,अवयवार्थ त्वाह-'तास्वि'त्यादिना,(पृ. ६८-४) तासु उक्तलक्षणासु रत्नप्रभाद्यासु भूमिषु ऊर्ध्वमधश्चैकैकशः इत्येकैकस्याः पृथिव्या योजनसहस्रमेकैकं वर्जयित्वा ऊर्ध्वमधश्च मध्येषु भूमीनामेव, नरका भवन्ति आ षष्ठया इति, तानिदानी प्रसिद्धैरिहत्यनिदर्शनैर्भयानकैः प्रतिपादयन्नाह-तद्यथा उष्ट्रिकादयो' भाण्डकविशेषाः, एते प्रकीर्णका भवंति, आवलिकाप्रविष्टास्तु वृत्तव्यस्रचतुरस्राकृतयः त्रिविधसंस्थानाः, ते च सीमंतकोपक्रान्ताः सीमंतकं नरकमवधिमवस्थाप्यौपक्रम्यन्ते, एवमेते सामान्यतो द्विविधाः, इहैव काश्चिन्नाम्नवाह-'रौरवे 'त्यादिना, एवमन्ये केचिदिन्द्रकाः केचिदावलिकाप्रविष्टाः | केचित् प्रकीर्णका इति, एवंप्रकाराः अशुभनामान इति व्याध्याक्रोशशपथनामानः, सप्तमनरकपृथिवीवर्तिनस्तु कालादयः | पंचाप्रतिष्ठानपर्यंताः तत्र कालः पूर्वतः अपरतो महाकालः दक्षिणतो रौरवः उत्तरतो महारौरवः मध्ये प्रतिष्ठानो नरकेन्द्र इति, तत्र रत्नप्रभायामाद्यपृथिव्यां नारकाणां प्रस्तारा वेश्मभूमिकाकल्पाः त्रयोदश, द्विघ्नाः शेषास्तु एकादशादयो यावत् सप्तम्यामेक इति, यथोक्तं 'तेरिकारस नव सत्त पंच तिन्नेव होंति एकेव । पत्थडसंखा एसा सत्तसुवि कमेण पुढवीसुं॥१॥' एवं रत्नप्रभायां नरकावासानां नारकाणामित्यर्थः, त्रिंशत्सहस्राणि, सामान्येन, शेषासु शर्कराप्रभाद्यासु पंचविंशतिः पंचदश
एवमन्ये केचिदिन्द्रका के
नामान इति व्याध्या
तत्र कालः
प
॥१६०॥
॥१६०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org