SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ या योजनसहस्रपोडशकबाहल्या महामति, विंशतियोजनसहसमान सहस्रबाहल्यतनुद पृथिव्यः श्रीतवार्थ हरि० २ अध्या० | खरपृथिवी रत्नप्रभाऽङ्गरूपायोजनसहस्रषोडशकबाहल्या पंकप्रतिष्ठा, पंकश्चतुरशीतियोजनसहस्रमानोऽशीतियोजनसहस्रमाने जलबहुले, तत्पुनर्विंशतियोजनसहस्रमाने घनवलये घनवलयप्रतिष्ठमिति, विंशतियोजनसहस्रमानधनोदधिवलयप्रतिष्ठमित्यर्थः,एवं घनोदधिवलयमसंख्येययोजनसहस्रबाहल्यघनवातवलयप्रतिष्ठ, एवं घनवातवलयमसंख्येययोजनसहस्रबाहल्यतजुवातवलयप्रतिष्ठं, ततः तनुवातवलयात् परं महातमोभूतमाकाशमिति, घनान्धकारनिचितम् ,असंख्येययोजनकोटीकोटिमानमित्यर्थः,सर्व चैतत् पृथिव्यादि तनुवानवलयान्तमनन्तरोदितं किमित्याह-आकाशप्रतिष्ठं, ज्योतिर्विमानानामाकाश एव तथादर्शनात् , आकाशं त्वात्मप्रतिष्ठमिति, नाधारान्तप्रतिष्ठं, यस्मादुक्तं पञ्चमेऽध्याये सूत्रतः 'आकाशस्यावगाहः' (५. १८) उपकार इत्येतद् , उपल-.. क्षणमिदमवगाहनमाकाशस्येति,अवगाहदानेन व्याप्रियते आकाशं सर्वद्रव्याणाम् , अवगाहवतां पुनरवगाहदानव्यापारं सदवगाहिप्यति,तदन्यत्र तदनुरूपाधाराभावात् , अतः स्वप्रतिष्ठमिदमिति, तदनेन क्रमेणे'त्यादि,तस्मात् अनेन क्रमेणानन्तरोदितेन किमित्याह 'लोकानुभावप्रतिष्ठा' (सन्निविष्टा) इत्यनादिलोकस्थितिरचिताः 'असङ्कथेययोजनकोटीकोटयो विस्तृताः तिर्यग् सप्त भूमयो रत्नप्रभाधा यथोद्दिष्टा इति, सप्तग्रहणं नियमार्थ सप्तैवाध इत्याह, मा भून् एकशः एकैका अनियतसंख्या,तथा | खरकाण्डभेदेन, 'किंचान्यत्' अन्यदपि सप्तग्रहणस्य प्रयोजनं, तदाह-'अधः सप्तवेत्यवधार्यते' अध एव सप्त, ऊर्ध्व त्वेक| वेपत्प्राग्भारेति,वक्ष्यते दशमेऽध्याये 'तन्वी मनोज्ञेत्यादिना, (पृ.२३-१७) इहैव प्रयोजनान्तरमाह-'अपिचे'त्यादिना, अन्तरे |भवा अन्तरीयाः तन्त्रप्रधाना अन्तरीयास्तन्त्रान्तरीयाः शाक्यादयः असंख्येयेषु लोकधातुषु सदायेषु असंख्येयाः पृथि|वीप्रस्तरा इत्यध्यवसिताः एवं प्रतिपन्नाः,अनेकब्रह्माण्डोपलक्षणमेतत्, तत्प्रतिषेधार्थ च सप्तग्रहणमिति, प्रतिषेधश्च आसा ॥१५८॥ ॥१५८॥ Jan Education International For Personal &Private Use Orty www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy