SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पृथिव्यः भीतश्चार्थ हरि० २ अध्या० च नारकस्यायुषः इत्युक्तं भवतेति,व्युत्पन्नश्वोदकः,अव्युत्पन्नस्य प्रश्नायोगात् , गूकं हुंकारं चेति श्रवणविधिकथनात्,तदेवमनेकत्र नारकश्रुतेः प्रामाण्याद् विशेषार्थ पृच्छति-तत्र नारके नरकाः नाम सत्त्वाः के वेति, इति अत्रोच्यते-नरकेषु भवाः नारकाः, नरान् कायंतीति नरकाः उष्ट्रिकादयो वक्ष्यमाणास्तेषु भवाः सच्चाः दुष्कृतकर्मणा नारका इति,तत्र नारकप्रसिद्धयर्थमिदं वक्ष्य|माणमुच्यते सूत्रं, तन्निवासित्वान्नारकाणामिति ॥ तदाह-- रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो घनाम्वुवाताकाशप्रतिष्ठाः सप्त अधोऽधः पृथुतराः इति ॥ १॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थमाह-रत्नप्रभेत्यादिना,(पृ.६६-१०) रत्नानि-बज्रादीनि तत्प्रधाना रत्नरूपा रत्नभावा रत्नब| हुलेत्यर्थः,एवं शर्कराप्रभादयोऽपि वाच्याः,प्रभाशब्दस्य प्रत्येकमभिसस्बन्धात् इति,एवमेता भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्ति' घनाम्बु च वाताकाशं चेति समासः, तेषु प्रतिष्ठा-स्थितिर्यासां तास्तथाविधा भवन्ति, 'एकैकश' इत्येकैका धनाम्बुवामातादिप्रतिष्ठा, न पुनः सप्तानामप्यध एव धनांब्बादीनि, सप्तेति संख्या, सप्तैव, न न्यूनाधिकाः, 'अधोऽध' इति प्रतिविशिष्ट क्रमाख्यानं, तिर्यगू;दिव्यवच्छेदार्थ,एतदेव रत्नप्रभायाः अधः असंख्येययोजनकोटीरवगाह्य शर्कराप्रभा भवति,एवं शर्कराप्रभाया अधो वालुकाप्रभा, इत्येवं शेषाः पंकप्रभाद्या भाव्या इत्याद्यर्थः, एतदेवाह-रत्नप्रभाया अधः असंख्येया योजनकोटीना कोटीः | अम्बुवाताकाशप्रतिष्ठा इत्येतावता सिद्ध सति घनग्रहणं क्रियते, किमर्थमित्याह-यथा प्रतीयेत-गम्येत यदुत घनमेवा|म्बु पृथिव्या रत्नप्रभारूपायाः, वातास्तु घनाः तनवश्चेति तद्यथा प्रतीयते, एतदेवाह-'तदेव'मित्यादिना, तदेवमुक्तनी त्याऽऽद्या ॥१५७|| ||१५७|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy