SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आयु श्रीतत्वार्थ हरि० २ अध्या० चितस्य तथा विरलीकृतस्येत्यर्थः, सर्वतो युगपदादीपितस्य तथा पवनोपक्रमाभिहतस्य सहकारिविशेषात् , आशुशीघ्र दाहो भवति तदायुषोऽप्यनुभव इति,यदाऽऽयुदृढसंहतमतिघनतया बन्धकाल एव एवं बद्धं तत् क्रमेण वेद्यमानं चिराय वेद्यते, यत् पुनर्बन्धकाल एव शिथिलमाबद्धं तद्विप्रकीर्णतणराशिदाहवत् अपवर्ण वेद्यते इति, इहैव दृष्टान्तान्तरमाह-'यथा वे विचारः त्यादिना,यथा वा संख्यानाचार्यः गणनाचार्यः संख्यानं गणितं करणलाघवार्थ करणानि गुणकारापवर्तनोद्वर्तनानि गणितशा| स्वप्रसिद्धानि तत्र यो लघुः करणोपायः स्वल्पकालः तेन तत्फलमानयति गणिताभिन्नत्वात् ,तत्तुल्ये अपि हि फलानयने गुणकारभाग| हारौ चिराय तत्फलममिनिवर्तयतः, स पुमान् गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाह राशिं छेदादेवाल्पत्वादिना तदपवर्तयति षण्णवत्यादिकं, अनपवर्तनाई पुनर्लघुकरणाभिज्ञोऽपि न शक्रोत्येवापवर्तयितुमेकपंचाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवानुप्रयोजयति, न च संख्येयस्साभावो भवति, फलभूतस्य करणविशेष सत्यपि प्रेप्सितं फलामेदं दर्शयति, करणव्यापारकालोऽल्पभेदः,फलमविशिष्टमेवोभयोरिति वृद्धाः, यथैतद् तद्वदेतदिति दार्शन्तिकयोजना,उपक्रमाभिहत इत्युपक्रमहेत्वभिहतः मरणसमुातदुःस्वार्तः मरणम्-आयुक्षयः तत्र समुद्घातः दुःखातिशयो वहिःचेष्टानिरोधसारः क्रियाविशेषः स एव निरुपमकम्मोत्खननात् दुःखं तेनातों-विषण्णः कर्मप्रत्ययं कर्मकारणं अनाभोगयोगपूर्वकं छपस्थत्वादशानण्यापारपूर्वकं करणविशेषमपवर्चनाख्यमुत्पाद्य तथा कर्मखभावत्वेन फलोपभोगकरणाय काललघुतापादनेन कर्मापवर्त्तयति लघुकालेन वेदनात् ,न चास्य कर्मण फलाभावः, तथा सर्वतो भोगादिति, किंचान्यत्-निदर्शनान्तर ॥१५५॥ पक्षे यथा धौतपटः प्रक्षालितपटः जलाई एव सन् संहतोऽविशिष्टः, किमित्याह-चिरेण शोषमुपयाति चिरायोद्वाययती-IR ॥१५५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy