________________
श्रीतच्चार्थहरि०
२ अध्या०
॥१५४॥
VOLJEJO
Jain Education International
तोऽसम्भवात् किमित्याह-कर्मफलोपभोगः सकलायुःकर्मवेदनं, इहापवर्त्तनक (का) ले कर्मफलोपभोगेषु अपवर्त्तनशब्दः, यदाह - अपवर्त्तननिमित्तमित्यपवर्त्तनं निमित्तमस्येति विग्रहः, दीर्घस्थितेः कर्मणोऽल्पस्थितिकरणं, निमित्तभावः, 'अत्राहे' त्यादि (पृ. ६४-४) अत्रावसरे पर आह— यद्यपवर्त्तते अपैति कर्म्म, फलं अदवेत्यभिप्रायः, तस्मात् ततः कृतनाशः प्रसज्यते, | कुत इत्याह-- यस्मान्न बेद्यते नानुभूयते तदिति, तथाऽस्ति आयुष्कं कम्र्माननुभूतं सत् तिष्ठति म्रियते च तत्स्वामी, तस्मात् ततः अकृताभ्यागमः प्रसज्यते, आगामिभवायुपस्तत्कालवेद्यत्वेनाकरणात्, अन्यच्च — येन सत्यायुष्के तद्भववेदनीये | म्रियते ततश्वायुष्कस्य कर्मण आफल्यं स्वफलजीवनरहितता प्रसज्यते, तदकिंचित्करत्वेन, अनिष्टं चैतत् कर्म्मसाफल्याभ्युपगमात्, "पुद्धिं दुश्चिनाणं दुप्पडिकंताणं कडाणं कम्माणं वेदयित्ता मोक्खो, नत्थि अवेदयित्ते" ति वचनात् एकभवस्थिति चायुष्कं कर्म्म, तत्रानुभवमाश्रित्य न जात्यन्तरानुबन्धि, तस्यैव जात्यन्तरे अवेदनात्, यस्मादेवं तस्मान्नापवर्त्तनमुक्तलक्षणमायुषोऽस्तीति परः, अत्रोच्यते समाधिः कृतना शाकृताभ्यागमासाफल्यानि पूर्वोक्तानि कर्म्मणो न विद्यन्ते, नाप्यायुष्कस्य जात्यन्तरानुबन्धो विद्यते, किन्तु यथोक्तैरुपक्रमैरध्यवसानविषादिभिः अभिहतस्य पीडितस्य जन्तोः, किमि - त्याह- सर्वसंदोहेन सर्वात्मना उदयप्राप्तं सद् आयुष्कं कर्म शीघ्रं क्रमभाविविपाकावर्त्तनेनायुरनुभवात्, तदपवर्त्तनमुच्यत इत्ये| षोऽपवर्त्तनशब्दार्थः, तत् सर्वानुभवसार एव, इहैव निदर्शनमाह - संहत शुष्कतृणर (शिवहनवत्, संहतवासौ शुष्कतृण शिश्च २ तस्य दहनं तद्वत्, एतदेव व्याचष्टे - 'यथा ही त्यादिना, यथा हि संहतस्य सतः शुष्कस्यापि तृणराशेः, न अस्तोमार्द्रस्य, अवयवशः प्रत्यवयवं न क्रमेण दह्यमानस्य चिरेण दाहो भवति संहतत्वादेव, तस्यैव तृणराशेः शिथिलप्रकीर्णोप
For Personal & Private Use Only
आयुविचार:
।। १५४।।
www.jainelibrary.org