________________
श्रीतस्वार्थहरि०
२ अध्या०
।। १५३।।
Jain Education International
इदमाह-वायेषु द्वीपसमुद्रेषु मनुष्यलोकात्, किमित्याह - तिर्यग्योनिजा गवादयः असंख्येयवर्षायुषो भवन्तीति पूर्ववत्, मनुष्य क्षेत्रबहिश्चैत एव भवन्तीत्यर्थः, यदुक्तमनपवर्त्तनीयानि द्विविधानि भवति तदुपदर्शयन्नाह - ' औपपातिकाश्च नारकदेवाः ' असंख्येयवर्षायुषश्वोक्तलक्षणां निरुपक्रमा इति-निरुपक्रमायुष एक, तथा तद्भन्धोपपत्तेः, चरमदेहाः पुनः सोपक्रमा निरुपक्रमाश्च सामान्येन, कथयतीत्यर्थः यद्येवं कथं अनपवर्यायुषां मध्ये पाठः १ एषामेव बहुत्वादित्याचार्याःx, अत एवैतत्सम्भवो | पदर्शनार्थमुक्तं - अनपवर्त्तनीयानि पुनर्द्विविधानि - सोपक्रमाणि चेत्यादि, एतेन उत्तमपुरुषा व्याख्याता इत्युपन्यासः, वासुदेवोपक्रमश्रुतेरित्याचार्याः, तदेवं न सूत्रविरोधः, तथा चाह - 'एभ्य' इत्यादि, एभ्य उक्तलक्षणेभ्यः औपपातिकचर मदेहोत्तमपुरु| पासंख्येयवर्षायुषेभ्यः शेषा येऽन्ये मनुष्यतिर्यग्योनिजाः, ते किमित्याह - सोपक्रमा निरुपक्रमाश्च बाहुल्येन अपवर्यायुषः अनपवर्त्त्यायुपश्च भवन्ति, तथाऽऽयुर्बन्ध भेदोपपत्तेः, इह नारकदेवा असंख्येयवर्षायुषः प्राणिनः पण्मासावशेषा नियमादायुषो बन्धकाः, शेषास्त्वायुषस्त्रिभागावशेषे वा त्रिभागात्रिभागावशेषे वा त्रिभागात्रिभागात्रिभागावशेषे वेति एतदुक्तं भवति - त्रिभागाव शेषायुषो | नवभागाव शेषायुषः सप्तविंशतिभागावशेषायुषो वा आयुषो बन्धकाः, अतः परं न बभंति, तत्र पृथिव्यादयः एकेन्द्रियाः पञ्चेन्द्रि याश्च निरुपक्रमायुषो नियमत एव त्रिभागावशेषे, सोपक्रमास्त्वनियमेन यावत् सप्तविंशतिभागे, ते च तदैव तदायुर्बभन्त्यध्यव| सायभेदात् केचिदपवर्त्तनीयं चनन्ति केचिदनपवर्त्तनीयं मन्देतरपरिणामप्रयोगभेदादिति वृद्धाः, तत्र ये अपवर्त्त्यायुषः प्राणिनः | तेषां विषादिभिः शीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्तत इति, इंद्राशनिप्रपाततः अग्निरहितः कणकादिः वज्रं तु वैद्युतो वह्निः द्वन्द्वः उपघात आयुष इति शेषं प्रकटार्थ, अपवर्त्तनमाह- 'अपवर्त्तन' मित्यादिना, अपवर्त्तनं नाम शीघ्रं अन्तर्मुहूर्त्तादेव, पर
For Personal & Private Use Only
आयुविचार:
।।१५३ ।।
www.jainelibrary.org