SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० २ अध्या० | यान्महानगरदाहोपमं मैथुनाभिलापात दुःखमनुभवंति नारकाः कांक्षारूपमित्थं सन्मूछिनोऽपीत्यार्चाः ॥ (न) देवा, इति ॥ ५१ ॥ सूत्रम् ॥ वेदविचारः संबंधः प्रतीतः, समुदायार्थश्च । अवयवार्थमाह-'देवा' इत्यादिना (पृ-६२-२) दीव्यंतीति देवाश्चतुनिकायाः अपि भवनवास्यादयः, किमित्याह-नपुंसकानि न भवन्ति, किं तर्हि १, स्त्रियः पुमांसश्च भवन्ति, शुद्धवेदा एव, किमित्यत एवाह-| |'तेषां ही'त्यादि, तेषां देवानां यस्माच्छुभगतिनामापेक्षे इति, शुभगत्यादिनामगोत्रवेद्यायुष्कोपेक्षे स्त्रीपुंवेदनीये इति, स्त्री-| | पुंस्त्वानुभववेदनीये पूर्वबद्धनिकाचिते इति जन्मान्तरपरिगृहीतात्मप्रदेशे अन्योऽन्यानुविद्धे उदयप्राप्ते इति समासादितपरिपाके द्वे एव भवतः यथोदिते, न इतरत् नपुंसकवेदनीयं, यतो देवा नपुंसकानि न भवन्तीति । इदानीं सामर्थ्य लभ्यं दर्शयति| 'पारिशेष्याचे'त्यादिना, पारिशेष्याच गम्यते पारिशेष्यसिद्धत्वे ज्ञायते, किमित्याह-जराय्वण्डजपोतजाः पूर्वोक्तास्त्रिविधा भवंति यथासम्भवं स्त्रियः पुमांसो नपुंसकानीति॥ 'अनाहे त्यादि संबंधग्रन्थः, अत्र प्रस्तावे आह चोदक:-चतुर्गतावपि संसारे नरकगत्याद्यपेक्षया किं व्यवस्थिता स्थितिः आयुषः यावती क्षावय (सा भव) त्येव उत अकालमृत्युरप्यस्ति । तत्तस्थित्युल्लङ्घनेनेति, अत्रोच्यते, उत्तरं, 'द्विविधानी त्यादिना, द्विविधानि द्विप्रकाराणि आयूंषि जीवितानि भवन्तीति, किंभूतानीत्याह--'अपवर्तनीयानि अपवर्तनार्हाणि, अपवर्त्तना नाम प्राक्तनविरचितस्थितेरल्पतापादनं अध्यवसानादिभेदात् , अनपवर्तनीयानि चैतद्विपरीतानि, अनपवर्तनीयानि पुनर्द्विविधानि-सामान्येन सोपक्रमाणि निरूपक्रमाणीति, सहो ॥१५॥ पक्रमेण सोपक्रमाणि, उपक्रमोऽध्यवसानादिभिः स्थितेरासनीकरणं, निरुपक्रमाणि च निर्गतोपक्रमाणि च, उपक्रमरहितानीत्यर्थः, ॥१५१|| Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy