________________
श्री तत्वार्थहरि० २ अध्या०
॥१४९॥
Jain Education International
| तथा विषयतो नानात्वं विद्याधरौदारिकस्य नन्दीश्वरो विषयः, जंघाचारणौदारिकस्य तु तिर्यक् रुचकपर्वतः ऊर्ध्वं पाण्डुकं, | वैक्रियस्यासंख्येया द्वीपसमुद्राः, आहारकस्य महाविदेहक्षेत्राणि, तैजसकार्मणयोः सर्वलोक इति, तथा स्वामितो नानात्वं, औदा| रिकस्य तिर्यङ्मनुष्याः खामिनः, वैक्रियस्य देवनारकाः, तिर्यङ्मनुष्याश्च केचित् तल्लब्धिमन्तः, आहारकस्य चतुर्दशपूर्वविदः, तथा | तैजसकार्मणयोः सर्वसंसारिण इति, प्रयोजनतो नानात्वं, औदारिकस्य धर्मादिमोक्षान्तं प्रयोजनं, वैक्रियस्य स्थूरसूक्ष्मैकत्वव्योमचारादि, आहारकस्य सूक्ष्माद्यर्थनिर्णयः, तेजसस्याहारपाकः शापादिसामर्थ्यं च कार्मणस्य भवान्तरगत्यादि, एवं प्रमाणतो नानात्वं, सातिरेकं योजनसहस्रमोदारिकं प्रमाणेन, वैक्रियं योजनलक्षाः, आहारकं हस्तमात्रं, लोकप्रमाणे तैजसकार्मणे, एवं प्रदेशसंख्यातो नानात्वं, 'प्रदेशतोऽसङ्घयेयगुणं प्राक् तैजसात्' 'अनन्तगुणे परे' इत्युक्तं, एवमवगाहनतो नानात्वं, अवगाहनेहा| ssकाशप्रदेशेष्ववस्थानं, इयं प्रमाणानुसारतो भावनीया, तत्रेयं न विवक्षितेति भेदेनोक्ता, एवं स्थितितो नानात्वं, औदारिकस्य | जघन्येनान्तमुहूर्त्त स्थितिः उत्कर्षेण त्रीणि पल्योपमानि, वैक्रियस्य जधन्येनान्तर्मुहूर्त्तः उत्कर्षेण त्रयस्त्रिंशत् सागरोपमाणि, आहारकस्यान्तर्मुहूर्त्त एव, तैजसकार्मणे प्रवाहतोऽनाद्यपर्यवसिते अभव्यानां, भव्यानां तु सपर्यवसिते इति, एवं अल्पबहुत्वनानात्वं, | संभवे सति सर्वस्तोकान्याहारकाणि, उत्कर्षेण सहस्रपृथक्त्वं, कदाचिन्न सम्भवत्यपि, पण्मासान्तरालाभिधानात्, वैक्रियाण्यसंख्येयगुणानि, सदा नारकदेवभावात्, औदारिकाण्यसंख्येयगुणानि, सदा प्रत्येक (निगोद) शरी रतिर्यङ्मनुष्य भावात्, तेजसकार्मणे अनन्तगुणे, साधारणानामपि तत् प्रत्येकभावात् इति, एवमेतेभ्यश्च नवभ्यो विशेषेभ्यः कारणादिभ्यः शरीराणामौदारिकादीनां | नानात्वं सिद्धं प्रतिष्ठितमिति । 'अत्राहेत्यादि (पृ. ६१ - १) अत्रावसरे शिष्यः ग्रनयति- आसु चतसृषु संसारगतिषु नर
For Personal & Private Use Only
शरीरनानादीनि
॥१४९॥
www.jainelibrary.org