________________
श्री तन्त्रार्थहरि०
२ अध्या०
।। १४८ ।।
Jain Education International
| अभिहननशीलं भूत्वा स्थूलतया अप्रतिघाति भवति सूक्ष्मतया एवं विपर्ययोऽपि यच्चैककाल एव एतान् भावान् अधिकारानभिहितलक्षणाननुभवति वेदयते, नैवं शेषाण्यौदारिकादीनीति भावितार्थ, न स्वार्थ एव प्रत्ययविधिरित्यनियमप्रदर्शनायाह--'विक्रियायां भव' मित्यादि, निगदसिद्धं, किन्तु कदाचिद्वैक्रयिकं चेति, एवमाहारकं आहियत इत्यादि, आहियते आहार्य्यमित्यनेन | शब्दद्वयेन विशिष्टकारकसाध्यमाहारकशब्दमाह, 'कृत्यलुटो बहुल' मिति (पा.) वचनात्, आहियते- गृह्यते प्रतिविशिष्टप्रयोजनायेत्याहारकं, आहार्य्यं वा, याचितोपस्कारवत्, कार्यपरिसमाप्तौ च मुच्यत एवेत्याह- अन्तर्मुहूर्त्तस्थितिः, एतावति च काले तदभिलषितार्थसिद्धेरिति नैवं शेषाण्यौदारिकादीनि भावितार्थमेतत् एवं तेजसो विकार इत्याह, इहोष्मभावलक्षणं तेजः | सर्वप्राणिनामाहारपाचकं तस्य तेजसो विकारस्तैजसं, तेजःसमावस्थांतरापत्तिः, एतत्पर्यायानाह - तेजोमयमिति, स एव विकारार्थः, एवं तेजःस्वतत्त्वमिति, तेजः स्वतच्चं स्वरूपमस्येति समासः, हृदं हि कार्मणभेदलक्षणं व्यापकमेव, अधुना लब्धिप्रत्ययमाह-'शापानुग्रहप्रयोजन' मिति, शापानुग्रहौ निग्राह्यानुग्राह्येषु यथासंख्यं प्रयोजनमस्येति समासः, नैवं शेषाण्यौदारिकादीनि भावितार्थं, एवं कर्म्मणो विकार इत्यादि, कर्म्मणो— ज्ञानवरणादेर्विकारोविकृतिः, कर्मणामेव लोलीभाव, इति एवं | कर्मात्मकमिति, कर्माण्यैव आत्माऽस्येति कर्म्मात्मकं, एवं कर्ममयमिति विकारार्थ एव पर्याय: मैवं शेषाण्यौदारिकादीनि भावितार्थ, एवमन्वर्थतः प्रतिपाद्यौदारिकादीन्यत एव तल्लक्षणभेदमतिदिशन्नाह' एभ्य एवेत्यादिना एभ्य एव चोदाराद्यर्थ| विशेषेभ्यो भिन्नलक्षणेभ्यः शरीराणामौदारिकादीनां नानात्वं सिद्धं, लक्षणभेदात् घटपटादीनामिव, 'किं चान्य' दित्यभ्युनयमाह, 'कारण 'इत्यादि, कारणतस्तावन्नानात्वं स्थूलपुद्गलोपचितमौदारिकं, तथा न वैक्रियादीनि, 'परम्परं सूक्ष्म' मितिवचनात्,
For Personal & Private Use Only
औदारिकाद्यर्थः
॥१४८॥
www.jainelibrary.org