SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० २ अध्या० ।। १४५ ।। JUGOSLO, Jain Education International तदपि लब्धप्रत्ययमेवेति सूत्रसमुदायार्थः । अवयवार्थं त्वाह- 'शुभ' मित्यादिना, (पृ. ५५-८) शुभमित्यवयवमुद्धृत्य व्याचष्टे| शुभद्रव्योपचितं शुभवर्णाद्युपपेतद्रव्यनिर्वर्त्तितं शुभपरिणामं चेत्यर्थः, चतुरस्रसंस्थानादिमच्यात्, विशुद्धमिति सूत्रावयवः, | एतद्व्याख्या- विशुद्धद्रव्योपचितं स्वच्छद्रव्यनिर्वर्त्तितं, असावद्यं वेत्यर्थः, हिंसकत्वाद्यभावात्, अव्याघातीति सूत्रावयवः, | एतद्व्याख्या त्वाहारकं शरीरं न व्याहंति, न किंचिद् विनाशयति, न व्याहन्यते वेत्यर्थः, न च ज्ञानि (व्याघाति) व्याहन्यते विघात्यते, तदेवंभूतमाहारकं चतुर्दशपूर्वधर एवेत्यर्थः, चतुर्दशपूर्वधरः, चतुर्दशेति संख्या, पूर्व प्रणयनात् पूर्वाणि तानि | धारयति धारणाजातेन आलम्बत इति चतुर्दशपूर्वधरः, अवधारणं चतुर्दशपूर्वधर एप, अभिन्नाक्षरः कस्मिंश्चिदर्थे कुच्छ्रे अर्थगहने अत्यन्तसूक्ष्मे अतिनिपुणे सन्देहमापन्नः संशयं प्रतिपन्नः संदिहानः सन् पर्यायसूक्ष्मतया निश्वयाधिगमार्थं निश्चयप्राये क्षेत्रान्तरितस्य विदेहादिवर्त्तिनः भगवतोऽर्हतः तीर्थकरस्येत्यर्थः पादमूले पादान्तिके न शरीरेण स्वसम्बन्धिना अशकूयं गमनं मत्वा अवबुध्य लब्धिप्रत्ययमेव योगर्धिनिमित्तमेव उत्पादयति उपजनयति आहारकं शरीरमिति गम्यते, दृष्ट्वा च | भगवंतं तच्छरीरगमने छिन्नसंशयो विधिप्रश्नद्वारेण पुनरागत्य प्रतिपं स्वक्षेत्रं व्युत्सृजत्याहारकम् औदारिकमेवाङ्गीकरोति, | अन्तर्मुहूर्त्तस्येत्यारम्भात् प्रवृत्तित्यागान्तोऽयमस्य काल इति एतचामिनाक्षर एवं करोति, न मिनाक्षरः, तस्य संशयाभावात्, भगवत्यपि कौतुकानुपपत्तेः, समाधेर्विशेषदर्शनात्, अशेषश्रुतज्ञानपर्यायै रक्षावगमादित्येवं तच्च जघन्यमानतो न्यूनो हस्तः, उत्कर्षेण पूर्ण इति ॥ तेजममपीति ॥ ५० (१) ॥ सूत्रम् ॥ For Personal & Private Use Only आहारकंतत्स्वामी ।। १४५ ।। www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy