________________
श्रीतचार्थ
हरि०
२ अध्या०
मणे शरीरे संसारिणो जीवस्य भवतः, नासंसारिणः, एतनिबन्धनत्वात् संसारस्येति, स्वामिप्रायमभिधाय मतान्तरमुपन्य| सन्नाह–'एके त्वि'त्यादिना, एके त्वाचार्या इति अन्ये पुनराचार्याः, नयवादापेक्षमिति, पर्यायनयवादमपेक्ष्य ब्याचक्षते, कथ- तैजसकार्म|मित्याह-कार्मणमेवैकं शरीरमनादिसम्बन्धं, एवनाह अपेक्षया, ततश्च तेनैवैकेन कार्मणेन शरीरेण जीवस्य-प्राणिनोऽनादिः सम्ब-18 णव्यापकता
न्धो भवति, तस्यैव संसारनिबन्धनत्वात् , तैजसं तु लन्ध्यवेक्षं भवति, गुणप्रत्ययत्वात् , सा च तैजसलन्धिर्विशिष्टतया अनुष्ठान| साध्या न सर्वस्य संसारिणः, किन्तु कस्यचिदेव भवति तथाविधतपखिनः, श्रावैरभृतमित्याह-'कोपप्रसादनिमित्ता'विति, | कोपप्रसादौ निमित्तं ययोः शापानुग्रहयोः तौ कोपप्रसादनिमित्तौ शापानुग्रहौ प्रतिपन्ना अभिमुखीकृत्य तेजोनिसर्गशीतरश्मि|निसर्गकरमिति, तेजोनिसर्गश्च शीतरश्मिनिसर्गश्च तेजोनिसर्गशीतरश्मिनिसगौं एतत्करणशीलमिति समासः, तत्र तेजो| निसर्गकर कोपावेशाल्लौकिकमुनेर्गोशाले तेजोनिसर्गवत , शीतरश्मिनिसर्गकरं तु प्रसादावेशात् भगवतो गोशाल एव शीतरश्मिनिसर्गवत् , तथा 'भ्राजिष्णुप्रभे'त्यादि, भ्राजनशीलो भ्राजिष्णु प्रभाणां समुदायस्तस्य छाया, ननु च प्रभा भ्राजिष्णुरेव | भवति किं हि तस्या विशेष्यते?, न, मलीमसत्वेनापि दर्शनात् , मलीमसप्रभो मणिरिति व्यवहरंति लौकिकाः, तस्याश्च छायाया | निर्वतकं उत्पादकं तैजस शरीरेप्चौदारिकादिषु केचित् मणिज्वलनज्योतिष्कविमानवदिति. यथा हि मणयः स्फटिकाक्वैडूर्यादयो भ्राजिष्णुच्छायाः विमलपुद्गलारब्धत्वात् , ज्वलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते तेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यानां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात् , तैजसशरीरापेक्षमौदारिकादिपु शरीरेषु केषुचिदेव स्फुरन्मजा
॥१४॥ | जालमुपलभ्यते इति, न चैवमपि सूत्रमनारु, कार्मणशरीरभेदस्यैवाभ्यवहताहारं प्रति पाकशक्तिमतस्तैजसत्वेन विवक्षितत्त्वादिति,
॥१४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org