________________
श्रीवस्वार्थ
हरि० ।
m
२ अध्या०
एते एव शरीरे परे अप्रतिघाते-प्रतिघातवर्जिते भरत इति सूत्रसमुदायार्थः। अवयवार्थमाह-एते द्वे'इत्यादिना (पृ. ५१-९) एते इत्युक्ते द्विशब्दोपादानं प्रथमाबहुवचनाशंकानिवृत्यर्थ, तैजसकार्मणे इति प्रक्रान्ते, अन्यत्र लोकान्तादिति लोकान्तं मुक्त्वा ।
10 तेजसादेः
अनादिता सर्वत्रान्यत्र वा लोकादौ, किमित्याह-अप्रतिघाते इति-प्रतिषातवर्जिते भवतः, तथाविधसूक्ष्मपरिणामित्वात् , एतद्वतां लोक| मध्ये सर्वत्रोपपत्तेरिति ।
अनादिसम्बन्धे (च) इति ॥४२॥ सूत्रम्॥ ___ आदिः प्राथम्यमविद्यमानः आदिर्यस्यासावनादिः, सम्बन्धन सम्बन्धः-संयोगः, अनादिः सम्बन्धो ययोः परस्परेण संसा| रिमिश्च सह ते अनादिसंबन्धे, चशब्दः सम्बन्धविकल्पार्थः, प्रवाहतो, न तु व्यक्तितः, अतीतकालवदिति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'ताभ्या'मित्यादिना (पृ. ५१-१३) ताभ्यां तैजसकार्मणाभ्यामित्याह, अनादिः-अकृतकस्तथाभव्यत्वापेक्षया सम्बन्धः-संयोगो जीवस्येत्येवमनादिसम्बन्धे इति, जीवत्ववत् , तत्कर्मसंबंधयोग्यत्वरूपं जीवत्वं तथाभन्यत्वमनादि, तदभावेसिद्धस्येव (न तथा कर्मसंबंधः, भेदापेक्षया वाऽऽदिसम्बन्धे इति, तदित्यमादिचानादित्वयोरन्योऽन्यानुवेधः अन्यथोभयाभाव इति भावनीय, एतेन सिद्धानामप्यनादिमत्त्वाभ्युपगमाजीवत्ववत् तदसिद्धपूर्वकत्वाभाव इति पदाहुर्मन्दमतयस्तदपि प्रतिक्षिप्तमवसेयं आदित्वानादित्वयोरन्यानुवेधोऽन्यथोभयाभावादिति भावितमेतत् ।।
सर्वस्येति ।। ४३ ।। सूत्रम् ।। सम्बन्धः प्रतीतः,समुदायार्थ त्वाह-'सर्वस्यैवेत्यादिनाऽऽह (पृ.५१-१५) सर्वस्य-सर्वस्यैव एते-अनन्तरोदिते तैजसका
॥१४॥
acotto
॥१४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org