SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ- हरि० २ अध्या० स्थूलमूक्ष्मता भवति-औदारिकशरीरग्रहणयोग्यो यः स्कन्धोऽनन्तप्रदेशः एकः यदाऽन्यैरनन्ताणुकैः स्कन्धैरसङ्ख्येयेर्गुणितो भवति तदा वैक्रियग्रहणयोग्यो जायते, एवं वैक्रियग्रहणयोग्योऽप्यनन्ताणुको यदाऽन्यैरनन्ताणुकरसंख्येयैर्गुणितो भवति तदाऽऽहारकग्रहणयोग्यतामेति, तैजसादिति मर्यादां दर्शयति,न सर्वशरीरव्याप्ययं न्यायः, अपि तु तैजसमर्यादया, अमुमेवार्थ स्पष्टतरमाह-'औदारिके'| त्यादि, औदारिकशरीरप्रदेशेम्यो यथोदितानन्ताणुस्कन्धेभ्यः, किमित्याह-वैक्रियशरीरप्रदेशा यथोदितस्कन्धा एव, असंख्येयगुणा इति भावितार्थमेतत्,एवं वैक्रियशरीरप्रदेशेभ्यः पूर्वोक्तस्कन्धेभ्यः आहारकशरीरप्रदेशाः पूर्वोक्ता एवासङ्खयेयगुणा इति,समानं पूर्वेण,सर्वत्रेह प्रदेशास्तत्तच्छरीरप्रायोग्यस्कन्धा एव गृह्यन्ते,न परमाणवः,तत्त्वार्थासम्मवात्,अणूनां च शरीरग्रहणयोग्यत्वाभावादिति _ अनन्तगुणे परे इति ॥ ४० ॥ सूत्रम् ॥ समुदायार्थः प्रकटः, अवयवार्थ त्वाह-'परे द्वे शरीरे' इत्यादिना (पृ-५१-५) परे इत्युक्ते द्विशब्दोपादानं सप्तम्याशंकानिवृत्यर्थः, परे द्वे शरीरे, विस्पष्टार्थमाह-तैजसकामणे इत्यादि पूर्ववत्, पूर्वस्मात् पूर्वत इति, वीप्सायां व्याप्तिमाह, प्रदेशार्थतयतेऽनन्ताणुकस्कन्धार्थत्वेनानन्तगुणे भवतः, एतत् प्रकटार्थमेवाह-आहारकाच्छरीरातैजसं शरीरमेव, किमित्याह-प्रदेशतोऽनन्तगुणमिति, आहारशरीरयोग्यः स्कन्धोऽनन्ताणुमिः स्कन्धेरनन्तैर्गुणितः तैजसशरीरग्रहणयोग्यो भवति, एवं प्रदेशत इति प्रदेशैरनन्ताणुकैरनन्तैरनन्तगुणमिति फलनिर्देशः, एवं तैजसाच्छरीरात् कार्मणमेव, किमित्याह-अनन्तगुणमिति, एवमेव | शरीरावयवानन्तगुणत्वेनेति भावनीयं ।। अप्रतिघाते इति ॥ ४१ ।। सूत्रं ।। ॥१३९॥ | ॥१३९।। Jan Education International For Personal & Private Use Only swww.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy