________________
श्रीस्वार्थहरि०
२ अध्या०
॥१३८॥
Jain Education International
ततस्तैजसं, सूक्ष्मासङ्घयेय स्कन्धकत्वात्, ततः कार्मणं सूक्ष्मानन्तप्रदेशत्वादिति || अनुमेवार्थमादर्शयन्नाह - परं परं सूक्ष्ममिति ॥ ३८ ॥ सूत्रम् ॥
सम्बन्धः प्रकटः, समुदायार्थश्च । अवयवार्थं त्वाह- 'तेषा' मित्यादिना (पृ. ५० - १३) तेषामित्यनेन सूत्रसंबंधमाह - औदारिकादीनां शरीराणामनन्तरोद्दिष्टानां किमित्याह - परं परं सूक्ष्मं वेदितव्यमिति, वीप्सा व्याप्तिमाह, पूर्व पूर्वमुत्तरोत्तरशरीरा|पेक्षया परिस्थूरद्रव्यारन्धमतिशिथिलनिचयं बृहच्च भवति, उत्तरोत्तरं तु सूक्ष्मद्रव्यानन्तमतिधननिचयमणु च भवति, पुद्गलद्रव्यपरिणतिवैचित्र्यात्, अनुमेवार्थमाह-'तयथे' त्यादिना, तदेतद्यथा स्पष्टतरं भवति तथा कथयति ओदारिकाच्छरीरात् वैक्रियं सूक्ष्मं, ननु चौदारिकं योजनसहस्रप्रमाणमुत्कर्षात् वैक्रियं तु योजनलक्षप्रमाणमतः कथं तत् सूक्ष्ममिति १, उच्यते, यद्यपि प्रमाणतस्तदपि | महद्वैक्रियं तथापि सूक्ष्ममेवादृश्यत्वात् इच्छया तु तत्कर्तुर्दृश्यत इत्यतो न दोषः, तथा वैक्रियादाहारकं, सूक्ष्मतरपरिणामपरि|णतबहुपुद्गलद्रव्यारब्धत्वात्, आहारकात्तैजसं, बहुतरद्रव्यमतिसूक्ष्मपरिणामपरिणतं च तैजसात् कार्मणमतिचहुद्रव्यप्रचितमतिसूक्ष्मं च भवतिअत्र सूक्ष्मताऽऽपेक्षिकी प्रतिपत्तव्या न सूक्ष्मनामकर्मोदयजनितेति । एतच्च स्थूरात् सूक्ष्ममुत्तरोत्तरं किमित्याहप्रदेशतोऽसंख्येयगुणं प्राक् तैजसादिति ।। ३९ ।। सूत्रम् ।।
प्रदेश इति प्रवृद्धो देशः प्रदेशः - अनन्ताणुकस्कन्धः, एवंविधैः प्रदेशैः प्रदेशतः 'इतरेभ्योऽपि दृश्यत' इति प० वचनात्, असङ्घयेयगुणं भवति, परम्परमिति वर्त्तते, प्राक् तैजसादिति तैजसमर्यादयेति सूत्रसमुदायार्थः । अवयवार्थ त्वाह-'तेषा' मित्यादिना, | तेषां शरीराणाम्-औदारिकादीनां परं परमेवेत्युत्तरोत्तरमित्यर्थः, प्रदेशतोऽसङ्घयेयगुणं भवति, अनन्तरोदितप्रदेशापेक्षया एतदुक्तं
For Personal & Private Use Only
JOCCULT__________06_0:
स्थूलसूक्षमता
॥१३८॥
www.jainelibrary.org